प्राप्तोऽस्मि गतराज्योऽत्र मंत्रिभिः परिवंचितः । दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम
सुखेन विहरिष्यावो वनेऽत्र शुभपादपे । शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम
"अत्रैव च यथाकामं सुखं तिष्ठ मया सह । " वैश्य उवाच। कुटुम्बं मे निरालंबं मया हीनं सुदुःखितम् । भविष्यति च चिन्तार्तं व्याधिशोकोपतापितम्
भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् । इति चिन्तातुरं चेतो न मे शाम्यति भूमिप
कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च । स्वस्थं न मन्मनो राजन्गृहचिन्ताकुलं भृशम्
राजोवाच। यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः । तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते
हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः । तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह
वैश्य उवाच। मनो मे न स्थिरं राजन्भवत्यद्य सुदुःखितम् । चिन्तयाऽत्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः
राजोवाच। ममापि राज्यजं दुःखं दुनोति किल मानसम् । पृच्छावोऽद्य मुनिं शांतं शोकनाशनमौषधम्
व्यास उवाच। इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः । मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम्
गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् । आसीनं सम्यगासीनः शांतं शांतिमुपागतः
अथ त्रयस्त्रिंशोऽध्यायः राजोवाच। मुने वैश्योऽयमधुना वने मे मित्रतां गतः । पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम संगमम्
निष्कारणं च मे चिंता हृदयान्न निवर्तते । हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः
भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना । कोशक्षयं करिष्यंति रिपवोऽतिबलात्क्षणात्
इत्येवं चिंतयानस्य च मे निद्रा तनौ सुखम् । जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि
जानतोऽपि मनो भ्रांतं न स्थिरं भवति प्रभो । कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् । भ्रमोऽयमिति जानामि तथापि मम मानसः
मोहो नैवापसरति किं तत्कारणमद्भुतम् । स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत्
कारणं ब्रूहि मोहस्य ममास्य च दयानिधे । व्यास उवाच। इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः
तमुवाच परं ज्ञानं शोकमोहविनाशनम् । ऋषिरुवाच। शृणु राजन्प्रवक्ष्यामि कारणं बन्धमोक्षयोः
महामायेति विख्याता सर्वेषां प्राणिनामिह । ब्रह्मा विष्णुस्तथेशानस्तुराषाड्वरुणोऽनिलः
सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः । वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः
मायाधीनाश्च ते सर्वे भाजनं बंधमोक्षयोः । तया सृष्टमिदं सर्वं जगत्स्थावरजंगमम्
तद्वशे वर्तते नूनं मोहजालेन यंत्रितम् । त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाऽऽविलः
ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा । ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः
तेऽपि रागवशाल्लोके भ्रमति परिमोहिताः । पुरा सत्ययुगे राजन्विष्णुर्नारायणः स्वयम्
श्वेतद्वीपं समासाद्य चकार विपुलं तपः । वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये
अनश्वरसुखायासी चिंतयानस्ततः परम् । एकस्मिन्निर्जने देशे ब्रह्माऽपि परमाद्भुते
स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये । कदाचिद्वासुदेवोऽसौ स्थलांतरमतिर्हरिः
तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया । चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात्
मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ । अन्योन्यं पृष्टवंतौ तौ कस्त्वं कस्त्वमिति स्म ह