गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः । जाताः स्युर्नात्र संदेहः शत्रुणा परिपीडिताः
सेवका मम सर्वे ते शत्रूणां वशवर्तिनः । दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ धनं मे सुदुराचारैरसद्व्ययपरैः परैः । द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल
कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः । न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे
इति चिन्तापरो राजा वृक्षमूलस्थितो यदा । तदाजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा
नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः । पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम्
कोऽसि कस्माच्च दीनोऽसि हरितः शोकपीडितः । ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता
व्यास उवाच। तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः । उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम्
वैश्य उवाच। मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः । धनवान्धर्मनिपुण: सत्यवागनसूयकः
पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः । “कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजाम्” स्वजनेन च संत्यक्तः प्राप्तोऽस्मि वनमाशु वै
कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना । राजोवाच। सुरथो नाम राजाऽहं दस्युभिः पीडितोऽभवम्
प्राप्तोऽस्मि गतराज्योऽत्र मंत्रिभिः परिवंचितः । दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम
सुखेन विहरिष्यावो वनेऽत्र शुभपादपे । शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम
"अत्रैव च यथाकामं सुखं तिष्ठ मया सह । " वैश्य उवाच। कुटुम्बं मे निरालंबं मया हीनं सुदुःखितम् । भविष्यति च चिन्तार्तं व्याधिशोकोपतापितम्
भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् । इति चिन्तातुरं चेतो न मे शाम्यति भूमिप
कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च । स्वस्थं न मन्मनो राजन्गृहचिन्ताकुलं भृशम्
राजोवाच। यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः । तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते
हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः । तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह
वैश्य उवाच। मनो मे न स्थिरं राजन्भवत्यद्य सुदुःखितम् । चिन्तयाऽत्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः
राजोवाच। ममापि राज्यजं दुःखं दुनोति किल मानसम् । पृच्छावोऽद्य मुनिं शांतं शोकनाशनमौषधम्
व्यास उवाच। इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः । मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम्
गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् । आसीनं सम्यगासीनः शांतं शांतिमुपागतः
अथ त्रयस्त्रिंशोऽध्यायः राजोवाच। मुने वैश्योऽयमधुना वने मे मित्रतां गतः । पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम संगमम्
निष्कारणं च मे चिंता हृदयान्न निवर्तते । हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः
भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना । कोशक्षयं करिष्यंति रिपवोऽतिबलात्क्षणात्
इत्येवं चिंतयानस्य च मे निद्रा तनौ सुखम् । जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि
जानतोऽपि मनो भ्रांतं न स्थिरं भवति प्रभो । कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् । भ्रमोऽयमिति जानामि तथापि मम मानसः
मोहो नैवापसरति किं तत्कारणमद्भुतम् । स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत्
कारणं ब्रूहि मोहस्य ममास्य च दयानिधे । व्यास उवाच। इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः
तमुवाच परं ज्ञानं शोकमोहविनाशनम् । ऋषिरुवाच। शृणु राजन्प्रवक्ष्यामि कारणं बन्धमोक्षयोः
महामायेति विख्याता सर्वेषां प्राणिनामिह । ब्रह्मा विष्णुस्तथेशानस्तुराषाड्वरुणोऽनिलः