चिंतयामास मेधावी राजा नीतिविचक्षणः । प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान्
स्थानं गृहीत्वा विपुलं परिखादुर्गमंडितम् । कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम्
मंत्रिणः शत्रुवशगा मंत्रयोग्या न ते किल । किं करोमीति मनसा भूपतिः समचिंतयत्
कदाचित्ते गृहीत्वा मां पापाचाराः पराश्रिताः । शत्रुभ्योऽथ प्रदास्यंति तदा किं वा भविष्यति
पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन । किं ते वै प्रकुर्वन्ति ये लोभवशगा नराः
भ्रातरं पितरं मित्रं सुहृदं बांधवं तथा । गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः
तस्मान्मया न कर्तव्यो विश्वासः सर्वथाऽधुना । मंत्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते
इति संचिंत्य मनसा राजा परमदुर्मनाः । एकाकी हयमारुह्य निर्जगाम पुरात्तत्तः
असहायोऽथ निर्गत्य गहनं वनमाश्रितः । चिन्तयामास मेधावी क्व गंतव्यं मया पुनः
योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् । ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः
बहुवृक्षसमायुक्तं नदी पुलिन संश्रितम् । निर्वैरश्वापदाकीर्णं कोकिलारावमंडितम्
शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् । नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम्
होमधूमसुगंधेन प्रीतिदं प्राणिनां सदा । वेदध्वनिसमाक्रांतं स्वर्गादपि मनोहरम्
दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः । भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे
आसज्य पादपेऽश्वं तु जगाम विनयान्वितः । दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम्
मृगाजिनासनं शांतं तपसाऽतिकृशं ऋजुम् । अध्यापयंतं शिष्यांश्च वेदशास्त्रार्थदर्शिनम्
रहितं क्रोधलोभाद्यैर्द्वंद्वातीतं विमत्सरम् । आत्मज्ञानरतं सत्यवादिनं शमसंयुतम्
तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा । तदग्रे ऽश्रुजलापूर्णनयनः प्रेमसंयुतः
उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः । शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा
उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया । अर्घ्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम्
पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिंतापरः कथम् । कथयस्व यथाकामं संवृत्तं कारणं त्विह
किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् । करिष्ये वांछितं काममसाध्यमपि यत्तव
राजोवाच। सुरथो नाम राजाऽहं शत्रुभिश्च पराजितः । त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः
यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः । करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले
शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवांतिकम् । त्रायस्व मुनिशार्दूल शरणागतवत्सल
ऋषिरुवाच। निर्भयं वस राजेंद्र नात्र ते शत्रवः किल । आगमिष्यंति बलिनो निश्चयं तपसो बलात्
नात्र हिंसा प्रकर्तव्या वनवृत्त्या नृपोत्तम । कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः
व्यास उवाच। इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा । उवासाश्रम एवासौ फलमूलाशनः शुचिः
कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः । चिन्तयामास चिंतार्तो गृह एव गताशयः
राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा । संपीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः