जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे । व्यास उवाच। इत्युक्ता कालिका कालप्रेरिता कालरूपिणी
गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा । तयोः परस्परं युद्धं बभूवातिभयानकम्
पश्यतां सर्वदेवानां मुनीनां च महात्मनाम् । गदामुद्यम्य शुंभोऽथ जघान कालिकां रणे
कालिका दैत्यराजानं गदया न्यहनद्भृशम्। बभंजास्य रथं चंडी गदया कनकोज्ज्वलम्
खरान्हत्वा जघानाशु दारुकं दारुणस्वना। स पदातिर्गदां गुर्वी समादाय क्रुधान्वितः
कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा । वंचयित्वा गदाघातं खड्गमादाय सत्वरा
चिच्छेदास्य भुजं सव्यं सायुधं चंदनार्चितम् । स छिन्नबाहुविरथो गदापाणि: परिप्लुतः
अचिरेण समागत्य कालिकामहनत्तदा । काली च करवालेन भुजं तस्याथ दक्षिणम्
चिच्छेद प्रहसंती सा सगदं किल सांगदम् । कर्तुं पादप्रहारं स कुपितः प्रययौ जवात्
काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता । सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन्
धावमानो ययावाशु कालिकां भीषयन्निव । तमागच्छंतमालोक्य कालिका कमलोपमम्
चकर्त मस्तकं कंठाद्रुधिरौघवहं भृशम् । छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः
प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् । गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः
तुष्टुवुस्तां तदा देवीं चामुंडां कालिकां तथा । ववुर्वाता: शिवास्तत्र दिशश्च विमला भृशम्
बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः । हतशेषाश्च ये दैत्याः प्रणम्य जगदंबिकाम्
त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप । एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम्
शुम्भादीनां वधं चैव सुराणां रक्षणं तथा । एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः
शृण्वन्ति च सदा भक्त्या ते कृतार्था भवंति हि । अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु
रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् । शत्रुतो न भयं तस्य य इदं चरितं शुभम्
अथ द्वात्रिंशोऽध्यायः जनमेजय उवाच। महिमा वर्ण्यते सम्यक्चंडिकायास्त्वया मुने । केन चाराधिता पूर्वं चरित्रत्रययोगतः
प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् । आराध्य कामदां देवीं कथयस्व कृपानिधे
उपासनाविधिं ब्रह्मस्तथा पूजाविधिं वद । विस्तरेण महाभाग होमस्य च विधिं पुनः
सूत उवाच। इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः । प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम्
व्यास उवाच। स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः । बभूव परमोदारः प्रजापालनतत्परः
सत्यवादी कर्मपरो ब्राह्मणानां च पूजकः । गुरुभक्तिरतो नित्यं स्वदारगमने रतः
दानशीलोsविरोधी च धनुर्वेदैकपारगः । एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः
बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् । हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः
कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः । सुरथः सैन्यमादाय संमुखः समपद्यत
युद्धं समभवद्घोरं तस्य तैरतिदारुणैः । म्लेच्छानां तु बलं स्वल्पं राज्ञस्तद्बलमद्भुतम्
तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः । भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमंडितम्