सर्वाभरणभूषाढ्यां सर्वलक्षणसंयुताम् । स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः
पुष्पैश्च पूज्यमानां च मंदारपादपोद्भवैः । कुर्वाणां शंखनिनदं घंटानादं मनोहरम्
दृष्ट्वा तां मोहमगमच्छुंभः कामविमोहितः । पंचबाणाहतः कामं मनसा समचिंतयत्
अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् । सुकुमाराऽतितन्वंगी सद्यः प्रकटयौवना । चित्रमेतदसौ बाला कामभावविवर्जिता
कामकांतासमा रूपे सर्वलक्षणलक्षिता । अम्बिकेयं किमेतत्तु हंति सर्वान्महाबलान्
उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् । न मंत्रा वा मरालाक्षीसाधने सन्निधौ मम
सर्वमंत्रमयी ह्येषा मोहिनी मदगर्विता। सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी
पातालगमनं मेऽत्र न युक्तं समरांगणात् । सामदानविभेदैश्च नेयं साध्या महाबला
किं कर्तव्यं क्व गंतव्यं विषमे समुपस्थिते । मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत्
मरणं ऋषिभिः प्रोक्तं संगरे मंगलास्पदम् । यत्तत्समानबलयोर्योधयोर्युध्यतोः किल
प्राप्तेयं दैवरचिता नारी नरशतोत्तमा । नाशायास्मत्कुलस्येह सर्वथाऽतिबलाऽबला
वृथा किं सामवाक्यानि मया योज्यानि सांप्रतम् । हननायागता ह्येषा किं नु साम्ना प्रसीदति
न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता । भेदस्तु विफलः कामं सर्वदेववशानुगा
तस्मात्तु मरणं श्रेयो न संग्रामे पलायनम् । जयो वा मरणं वाऽद्य भवत्वेव यथाविधि
व्यास उवाच। इति संचिंत्यमानः स शुम्भः सत्त्वाश्रितोऽभवत् । युद्धाय सुस्थिरो भूत्वा तामुवाच पुरः स्थिताम्
देवि युध्यस्व कान्तेऽद्य वृथाऽयं ते परिश्रमः । मूर्खाऽसि किल नारीणां नायं धर्मः कदाचन
नारीणां लोचने बाणा भ्रुवावेव शरासनम् । हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः
सन्नाहश्चांगरागोऽत्र रथश्चापि मनोरथः । मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन
अन्यास्त्रधारणं स्त्रीणां स्त्रीणां विडंबनमसंशयम् । लज्जैव भूषणं कांते न च धार्ष्ट्यं कदाचन
युध्यमाना वरा नारी कर्कशेवाभिदृश्यते । स्तनौ संगोपनीयौ वा धनुषः कर्षणे कथम्
क्व मन्दगमनं कुत्र गदामादाय धावनम् । बुद्धिदा कालिका तेऽत्र चामुंडा परनायिका
चंडिकामन्त्रमध्यस्था लालनेऽसुस्वरा शिवा । वाहनं मृगराडास्ते सर्वसत्त्वभयंकरः
वीणानादं परित्यज्य घंटानादं करोषि यत् । रूपयौवनयोः सर्वं विरोधि वरवर्णिनि
यदि ते संगरेच्छाऽस्ति कुरूपा भव भामिनि । लम्बोष्ठी कुनखी क्रूरा ध्वांक्षवर्णा विलोचना
लम्बपादा कुदन्ती च मार्जारनयनाकृतिः । ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव
कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् । ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति
हन्तुं त्वां मृगशावाक्षि कामकांतोपमे मृधे । व्यास उवाच। इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका
स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम । देव्युवाच। किं विषीदसि मन्दात्मन्कामबाणविमोहितः
प्रेक्षिकाऽहं स्थिता मूढ कुरु कालिकया मृधम् । चामुण्डया वा कुर्वेते तव योग्ये रणांगणे
प्रहरस्व यथाकामं नाहं त्वां योद्धुमुत्सहे । इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा