रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा । तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम्
प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसंमिते । निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः
चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल । पतंति भवनात्पंच नव चेंद्रास्तथा पुनः
तथैव त्रिगुणे विष्णुर्मरणायोपकल्पते । तथैव द्विगुणे काले शंकरः शांतिमेति च
का चिंता मरणे मूढा निश्वले दैवनिर्मिते । मही महीधराणां च नाशः सूर्यशशांकयोः
जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम्
रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे । जयो वा मरणं वापि भवत्वद्यैव दैवतः
इत्युक्त्वा सैनिकाञ्छुंभो रथमास्थाय सत्वरः । प्रययावंबिका यत्र संस्थिता तु हिमाचले
सैन्यं प्रचलितं तस्य संगे तत्र चतुर्विधम् । हस्त्यश्वरथपादातिसंयुतं सायुधं बहु
तत्र गत्वाऽचले शुम्भः संस्थितां जगदम्बिकाम् । त्रैलोक्यमोहिनी कांतामपश्यत्सिंहवाहिनीम्
सर्वाभरणभूषाढ्यां सर्वलक्षणसंयुताम् । स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः
पुष्पैश्च पूज्यमानां च मंदारपादपोद्भवैः । कुर्वाणां शंखनिनदं घंटानादं मनोहरम्
दृष्ट्वा तां मोहमगमच्छुंभः कामविमोहितः । पंचबाणाहतः कामं मनसा समचिंतयत्
अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् । सुकुमाराऽतितन्वंगी सद्यः प्रकटयौवना । चित्रमेतदसौ बाला कामभावविवर्जिता
कामकांतासमा रूपे सर्वलक्षणलक्षिता । अम्बिकेयं किमेतत्तु हंति सर्वान्महाबलान्
उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् । न मंत्रा वा मरालाक्षीसाधने सन्निधौ मम
सर्वमंत्रमयी ह्येषा मोहिनी मदगर्विता। सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी
पातालगमनं मेऽत्र न युक्तं समरांगणात् । सामदानविभेदैश्च नेयं साध्या महाबला
किं कर्तव्यं क्व गंतव्यं विषमे समुपस्थिते । मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत्
मरणं ऋषिभिः प्रोक्तं संगरे मंगलास्पदम् । यत्तत्समानबलयोर्योधयोर्युध्यतोः किल
प्राप्तेयं दैवरचिता नारी नरशतोत्तमा । नाशायास्मत्कुलस्येह सर्वथाऽतिबलाऽबला
वृथा किं सामवाक्यानि मया योज्यानि सांप्रतम् । हननायागता ह्येषा किं नु साम्ना प्रसीदति
न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता । भेदस्तु विफलः कामं सर्वदेववशानुगा
तस्मात्तु मरणं श्रेयो न संग्रामे पलायनम् । जयो वा मरणं वाऽद्य भवत्वेव यथाविधि
व्यास उवाच। इति संचिंत्यमानः स शुम्भः सत्त्वाश्रितोऽभवत् । युद्धाय सुस्थिरो भूत्वा तामुवाच पुरः स्थिताम्
देवि युध्यस्व कान्तेऽद्य वृथाऽयं ते परिश्रमः । मूर्खाऽसि किल नारीणां नायं धर्मः कदाचन
नारीणां लोचने बाणा भ्रुवावेव शरासनम् । हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः
सन्नाहश्चांगरागोऽत्र रथश्चापि मनोरथः । मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन
अन्यास्त्रधारणं स्त्रीणां स्त्रीणां विडंबनमसंशयम् । लज्जैव भूषणं कांते न च धार्ष्ट्यं कदाचन
युध्यमाना वरा नारी कर्कशेवाभिदृश्यते । स्तनौ संगोपनीयौ वा धनुषः कर्षणे कथम्