तं पुनः सबलं कृत्वा जयायोपदधाति हि । दातारं याचकं कालः करोति समये क्वचित्
भिक्षुकं धनदातारं करोति समयान्तरे । विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः
इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् । तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना
सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः । एकैव च गतिर्नास्ति कालस्य किल भूपते
नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् । कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा
उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः । प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः
करदास्ते कृताः पूर्वं कालेन सम्मुखेन च । तेनैव विमुखेनाद्य बलिनोऽबलयासुराः
निहता नितरां कालः करोति च शुभाशुभम् । नैवात्र कारणं काली नैव देवाः सनातनाः
यथा ते रोचते राजंस्तथा कुरु विमृश्य च । कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः
त्वदग्रतो गतः शक्रो भग्नः संख्ये निरायुधः । तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः
तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् । पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि
मृते त्वयि महाराज शत्रवस्ते मुदान्विताः । मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः
अथैकत्रिंशोऽध्यायः व्यास उवाच। इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तदा । उवाच सैनिकानाशु कोपाकुलितलोचनः
शुम्भ उवाच। जाल्मा: किं ब्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे । निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम्
कालः कर्ता शुभानां वाऽशुभानां बलवत्तरः । का चिंता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके
यद्भवति तद्भवतु यत्करोति करोतु तत् । न मे चिंताऽस्ति कुत्रापि मरणाज्जीवनात्तथा
स कालोऽप्यन्यथा कर्तुं भावितो नेशते क्वचित् । न वर्षति च पर्जन्यः श्रावणे मासि सर्वदा
कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने । अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्ययम्
कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् । दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः
दैवमेव परं मन्ये धिक्पोरुषमनर्थकम् । जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः
रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा । तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम्
प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसंमिते । निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः
चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल । पतंति भवनात्पंच नव चेंद्रास्तथा पुनः
तथैव त्रिगुणे विष्णुर्मरणायोपकल्पते । तथैव द्विगुणे काले शंकरः शांतिमेति च
का चिंता मरणे मूढा निश्वले दैवनिर्मिते । मही महीधराणां च नाशः सूर्यशशांकयोः
जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम्
रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे । जयो वा मरणं वापि भवत्वद्यैव दैवतः
इत्युक्त्वा सैनिकाञ्छुंभो रथमास्थाय सत्वरः । प्रययावंबिका यत्र संस्थिता तु हिमाचले
सैन्यं प्रचलितं तस्य संगे तत्र चतुर्विधम् । हस्त्यश्वरथपादातिसंयुतं सायुधं बहु
तत्र गत्वाऽचले शुम्भः संस्थितां जगदम्बिकाम् । त्रैलोक्यमोहिनी कांतामपश्यत्सिंहवाहिनीम्