रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः । रुधिरस्रावसंयुक्तैर्गजाश्वदेहसंकुला
पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः । प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम्
सिंहं जघान गदया मस्तके मदगर्वितः । प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत्
सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् । प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत्
देव्युवाच तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव । ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम्
व्यास उवाच इत्युक्त्वा तरसा देवी कृपाणेन समाहिता । चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका
सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः । बभ्राम च गदापाणिस्त्रासयन्देवतागणान्
देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ । पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः
तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे । हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते
त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः । जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम्
तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः । पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ॥ ४२ तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् । राजंस्ते निहतो भ्राता शेते समरमूर्धनि
तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः । वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः
निशुम्भो निहतस्तत्र तया चण्डिकयाधुना । न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे
देवकार्यं समुद्दिश्य कापीयं परमाङ्गना । हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय
नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा । अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि
नानारूपधरातीव मायामूलविशारदा । विचित्रभूषणा देवी सर्वायुधधरा शुभा
गहना गूढचरिता कालरात्रिरिवापरा । अपारपारगा पूर्णा सर्वलक्षणसंयुता
अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः । देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्भुताम्
पलायनं परो धर्मः सर्वथा देहरक्षणम् । रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते
संग्रामे विजयो राजन् भविता ते न संशयः । कालः करोति बलिनं समये निर्बलं क्वचित्
तं पुनः सबलं कृत्वा जयायोपदधाति हि । दातारं याचकं कालः करोति समये क्वचित्
भिक्षुकं धनदातारं करोति समयान्तरे । विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः
इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् । तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना
सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः । एकैव च गतिर्नास्ति कालस्य किल भूपते
नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् । कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा
उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः । प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः
करदास्ते कृताः पूर्वं कालेन सम्मुखेन च । तेनैव विमुखेनाद्य बलिनोऽबलयासुराः
निहता नितरां कालः करोति च शुभाशुभम् । नैवात्र कारणं काली नैव देवाः सनातनाः
यथा ते रोचते राजंस्तथा कुरु विमृश्य च । कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः
त्वदग्रतो गतः शक्रो भग्नः संख्ये निरायुधः । तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः