दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः । तयोः परस्परं युद्धं बभूवातिभयानकम्
केसरी केशजालानि धुन्वानः सैन्यसागरम् । गाहयामास बलवान्सरसीं वारणो यथा
नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् । चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान्
एवं विमथ्यमाने तु सैन्ये केसरिणा तदा । अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः
अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः । सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः
तत्राजगाम तरसा शुम्भः सैन्यसमावृतः । निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम्
तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् । रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम्
तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् । सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा
विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा । मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः
तं तथा दानवं देवी स्मितपूर्वमिदं वचः । बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके
गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् । जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च
अथवा मच्छराघातहतप्राणा रणाजिरे । प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः
कातरत्वं च शूरत्वं न भवत्येव सर्वथा । ददाम्यभयदानं वै यान्तु सर्वे यथासुखम्
व्यास उवाच इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः । निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम्
धावमानस्तु तरसासिना सिंहं मदोत्कटम् । जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम्
ततो देवी स्वगदया वञ्चयित्वासिपातनम् । ताडयामास तं बाहोर्मूले परशुना तदा
खड्गेन निहतः सोऽपि बाहुमूले महामदः । संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा
सापि घण्टास्वनं घोरं चकार भयदं नृणाम् । पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती
एवं परस्परं युद्धं बभूवातिभयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम्
पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः । ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः
रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः । रुधिरस्रावसंयुक्तैर्गजाश्वदेहसंकुला
पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः । प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम्
सिंहं जघान गदया मस्तके मदगर्वितः । प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत्
सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् । प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत्
देव्युवाच तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव । ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम्
व्यास उवाच इत्युक्त्वा तरसा देवी कृपाणेन समाहिता । चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका
सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः । बभ्राम च गदापाणिस्त्रासयन्देवतागणान्
देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ । पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः
तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे । हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते
त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः । जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम्