तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् । कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम्
कैलासवासनिरतं सर्वशक्तिसमन्वितम् । भूतवृन्दयुतं देवं दक्षयज्ञविघातकम्
तथा सूर्यं वेदविदः सायंप्रातर्दिने दिने । मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः
तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् । परमात्मेति विख्यातं नाम तस्य महात्मनः
अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः । इन्द्रश्चापि त्रिलोकेशो वरुणश्च तथापरः
यथा गङ्गा प्रवाहैश्च बहुभिः परिवर्तते । तथैव सर्वदेवेषु विष्णुः प्रोक्तो महर्षिभिः
त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः । प्रत्यक्षं चानुमानं च शाब्दं चैव तृतीयकम्
चत्वार्येवेतरे प्राहुरुपमानयुतानि च । अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः
सप्त पौराणिकाश्चैव प्रवदन्ति मनीषिणः । एतैः प्रमाणैर्दुर्ज्ञेयं यद्ब्रह्म परमं च तत्
वितर्कश्चात्र कर्तव्यो बुद्ध्या चैवागमेन च । निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः
प्रत्यक्षतस्तु विज्ञानं चिन्त्यं मतिमता सदा । दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा
विद्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते । द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता
हरे संहारशक्तिश्च सूर्ये शक्तिः प्रकाशिका । धराधरणशक्तिश्च शेषे कूर्मे तथैव च
साद्या शक्तिः परिणता सर्वस्मिन्या प्रतिष्ठिता । दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका
शिवोऽपि शवतां याति कुण्डलिन्या विवर्जितः । शक्तिहीनस्तु यः कश्चिदसमर्थः स्मृतो बुधैः
एवं सर्वत्र भूतेषु स्थावरेषु चरेषु च । ब्रह्मादिस्तम्बपर्यन्तं ब्रह्माण्डेऽस्मिन्महातपाः
शक्तिहीनं तु निन्द्यं स्याद्वस्तुमात्रं चराचरम् । अशक्तः शत्रुविजये गमने भोजने तथा
एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते । सोपास्या विविधैः सम्यग्विचार्या सुधिया सदा
विष्णौ च सात्त्विकी शक्तिस्तया हीनोऽप्यकर्मकृत् । द्रुहिणे राजसी शक्तिर्यया हीनो ह्यसृष्टिकृत्
शिवे च तामसी शक्तिस्तया संहारकारकः । इत्यूह्यं मनसा सर्वं विचार्य च पुनः पुनः
शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् । इच्छया संहरत्येषा जगदेतच्चराचरम्
न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन
तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः । सैव कारणकार्येषु प्रत्यक्षेणावगम्यते
सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः । सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः
धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला । ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम्
न जानन्ति जना मूढास्तां सदा माययावृताः । जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि
पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् । प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः
कलावस्मिन्महाभागा नानाभेदसमुत्थिताः । नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन
विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः । ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम्
कामयानाः सदा कामं ते त्रयः सर्वदैव हि । यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः