मरणं त्वनिवार्यं वै प्राणिनां कालकल्पितम् । तद्भयं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः
निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे । हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा
त्वं तु सेनायुतो वीर पार्ष्णिग्राहो भवस्व मे । तरसा तां शरैस्तीक्ष्णैर्नारीं नय यमालये
निशुम्भ उवाच अहमद्य हनिष्यामि गत्वा दुष्टाञ्च कालिकाम् । आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथाम्बिकाम्
मा चिन्तां कुरु राजेन्द्र वराकायास्तु कारणे । क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशङ्करम्
त्यक्त्वाऽऽर्तिं विपुलां भ्रातर्भुंक्ष भोगाननुत्तमान् । आनयिष्याम्यहं कामं मानिनीं मानसंयुताम्
मयि तिष्ठति ते राजन्न युक्तं गमनं रणे । गत्वाहमानयिष्यामि तवार्थे वै जयश्रियम्
व्यास उवाच इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वितः । रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः
जगाम तरसा तूर्णं सङ्गरे कृतमङ्गलः । संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः
युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् व्यास उवाच निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा । सोद्यमः सबलः शूरो रणे देवीमुपाययौ
तमाजगाम शुम्भोऽपि स्वबलेन समावृतः । प्रेक्षकोऽभूद्रणे राजा संग्रामरसपण्डितः
गगने संस्थिता देवास्तदाभ्रपटलावृताः । दिदृक्षवस्तु संग्रामे सेन्द्रा यक्षगणास्तथा
निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् । चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम्
मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे । वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः
उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः । मरणायागतौ कालि मत्समीपमिहाधुना
दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा । जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया
आशा बलवती ह्येषा न जहाति नरं क्वचित् । भग्नं हृतबलं नष्टं गतपक्षं विचेतनम्
आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ । निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ
आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ । पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ
व्यास उवाच इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः । छादयामास तरसा निशुम्भं पुरतः स्थितम्
दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः । तयोः परस्परं युद्धं बभूवातिभयानकम्
केसरी केशजालानि धुन्वानः सैन्यसागरम् । गाहयामास बलवान्सरसीं वारणो यथा
नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् । चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान्
एवं विमथ्यमाने तु सैन्ये केसरिणा तदा । अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः
अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः । सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः
तत्राजगाम तरसा शुम्भः सैन्यसमावृतः । निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम्
तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् । रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम्
तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् । सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा
विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा । मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः
तं तथा दानवं देवी स्मितपूर्वमिदं वचः । बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके