नारसिंही नखाघातैस्तं विव्याध महासुरम् । अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम्
कौमारी च तथा शक्त्या वक्षस्येनमताडयत् । सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः
गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् । शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः
तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः । जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम्
तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् । तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः
रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः । सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम्
प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः । भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः
कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः । महाकाया महावीर्या दानवा रक्तसम्भवाः
एकैव चण्डिकात्रास्ति तथा काली च मातरः । एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत्
निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः । आगमिष्यति संग्रामे ततोऽनर्थो महान्भवेत्
व्यास उवाच एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् । यदा तदाम्बिका प्राह कालीं कमललोचनाम्
चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् । मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा
भक्षयन्ती चर रणे दानवानद्य कामतः । हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा
तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च । बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम्
भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे । एवमेषां क्षयो नूनं भविष्यति न चान्यथा
घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा । पिबन्ती क्षतजं सर्वं यतमानारिसंक्षये
इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् । इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम्
व्यास उवाच इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा । पपौ च क्षतजं सर्वं रक्तबीजशरीरजम्
अम्बिका तं जघानाशु खड्गेन मुसलेन च । चखाद देहशकलांश्चामुण्डा तान्कृशोदरी
सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् । तथापि सा पपावाशु क्षतजं तमभक्षयत्
येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः । तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः
कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः । सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः
रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे । पलायनं ततः कृत्वा गतास्ते भयकम्पिताः
हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः । रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः
राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः । चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम्
ये चान्ये दानवाः शूरा वाहनेनातिरंहसा । सिंहेन निहताः सर्वे काल्या च भक्षिताः परे
वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् । चरितञ्च तथा देव्याः संग्रामे परमाद्भुतम्
अजेयेयं महाराज सर्वथा दैत्यदानवैः । गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः
अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् । युध्यमाना महाराज वाहनैरायुधैर्युताः
ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः । रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः