नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् । भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः
शिवदूती अट्टहासैः पातयामास भूतले । तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता
शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः । निजघान रणे शत्रून्देवानां च हिताय वै
वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके । पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान्
एवं मातृगणेनाजावतिवीर्यपराक्रमम् । मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत्
बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे । पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि
तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः । रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान्
गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः । रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा
सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् । आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः
देव्यासह युद्धकरणाय निशुम्भप्रयाणम् व्यास उवाच वरदानमिदं तस्य दानवस्य शिवार्पितम् । अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम्
तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले । समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः
असंख्याता महावीर्या दानवा रक्तसम्भवाः । प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः
स तेन वरदानेन दर्पितः क्रोधसंयुतः । अभ्यगात्तरसा संख्ये हन्तुं देवीं सकालिकाम्
स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् । शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम्
गदया वारयामास शक्तिः सा शक्तिसंयुता । अताडयच्च चक्रेण रक्तबीजं महासुरम्
रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् । वज्राहतगिरेः शृङ्गान्निर्झरा इव गैरिका
यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः । समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः
ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च । रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम्
ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः । तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः
ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् । माहेश्वरी त्रिशूलेन दारयामास दानवम्
नारसिंही नखाघातैस्तं विव्याध महासुरम् । अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम्
कौमारी च तथा शक्त्या वक्षस्येनमताडयत् । सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः
गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् । शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः
तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः । जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम्
तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् । तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः
रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः । सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम्
प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः । भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः
कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः । महाकाया महावीर्या दानवा रक्तसम्भवाः
एकैव चण्डिकात्रास्ति तथा काली च मातरः । एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत्
निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः । आगमिष्यति संग्रामे ततोऽनर्थो महान्भवेत्