घोररूपाथ पञ्चास्यमित्युवाच स्मितानना । देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति
दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् । निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर
मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै । देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम्
प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः । जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा
तर्हि गच्छत पातालं तरसा यत्र दानवाः । अथवा बलमास्थाय युद्धेच्छा मरणाय चेत्
तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः । व्यास उवाच तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः
गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् । शिव उवाच राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः
त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् । त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम्
पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः । अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम्
संग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै । इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे
व्यास उवाच इति दैत्यवरान्देवीवाक्यं पीयूषसन्निभम् । हितकृच्छ्रावयित्वा स प्रत्यायातश्च शूलभृत्
ययासौ प्रेरितः शंभुर्दूतत्वे दानवान्प्रति । शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले
तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तुदुष्करम् । युद्धाय निर्ययुः शीघ्रं दंशिताः शस्त्रपाणयः
तरसा रणमागत्य चण्डिकां प्रति दानवाः । निर्जघ्नुश्च शरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः
कालिका शूलपातैस्तान् गदाशक्तिविदारितान् । कुर्वन्ती व्यचरत्तत्र भक्षयन्ती च दानवान्
कमण्डलुजलाक्षेपगतप्राणान् महाबलान् । ब्रह्माणी चाकरोत्तत्र दानवान्समराङ्गणे
माहेश्वरी वृषारूढा त्रिशूलेनातिरंहसा । जघान दानवान्संख्ये पातयामास भूतले
वैष्णवी चक्रपातेन गदापातेन दानवान् । गतप्राणांश्चकाराशु चोत्तमाङ्गविवर्जितान्
ऐन्द्री वज्रप्रहारेण पातयामास भूतले । ऐरावतकराघातपीडितान्दैत्यपुङ्गवान्
वाराही तुण्डघातेन दंष्ट्राग्रपातनेन च । जघान क्रोधसंयुक्ता शतशो दैत्यदानवान्
नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् । भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः
शिवदूती अट्टहासैः पातयामास भूतले । तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता
शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः । निजघान रणे शत्रून्देवानां च हिताय वै
वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके । पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान्
एवं मातृगणेनाजावतिवीर्यपराक्रमम् । मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत्
बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे । पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि
तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः । रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान्
गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः । रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा
सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् । आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः
देव्यासह युद्धकरणाय निशुम्भप्रयाणम् व्यास उवाच वरदानमिदं तस्य दानवस्य शिवार्पितम् । अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम्