शच्येन्द्रः शैलसुतया शङ्करः सह शेरते । वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः
एवं सर्वे प्राणभृतः संयोगरसिका भृशम् । अप्राप्तभोगविभवा ये चान्ये कातरा नराः
भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः । असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः
मधुरालापनिपुणै रताः शान्तिरसे हि ते । क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे
लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके । तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम्
शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् । व्यास उवाच इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः । श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा
रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् व्यास उवाच कृत्वा हास्यं ततो देवी तमुवाच विशांपते । मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः
पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे । दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम्
सदृशो मम रूपेण बलेन विभवेन च । त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम्
ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता । तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु
त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये । संग्रामं कुरु पातालं गच्छ वा पतिना सह
व्यास उवाच तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः । मुमोच तरसा बाणान्सिंहस्योपरि दारुणान्
अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् । चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात्
अन्यैर्जघान विशिखै रक्तबीजं महासुरम् । अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः
देवीबाणहतः पापो मूर्च्छामाप रथोपरि । पतिते रक्तबीजे तु हाहाकारो महानभूत्
सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् । ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम्
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह । शुम्भ उवाच निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः
अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः । व्यास उवाच इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम्
निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले । तमागतं समालोक्य चण्डिका दानवं बलम्
घण्टानादं चकाराशु भीषणं भयदं मुहुः । ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका
तेन नादेन सा जाता काली विस्तारितानना । श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम्
जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् । तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः
सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः । तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे
ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः । यस्य देवस्य यद्रूपं यथा भूषणवाहनम्
तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे । ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः
आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता । वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा
पद्महस्ता समायाता पीताम्बरविभूषिता । शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी
अर्धचन्द्रधरा देवी तथाहिवलया शिवा । कौमारी शिखिसंरूढा शक्तिहस्ता वरानना
युद्धकामा समायाता कार्तिकेयस्वरूपिणी । इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना
वज्रहस्तातिरोषाढ्या संग्रामाभिमुखी ययौ । वाराही शूकराकारा प्रौढप्रेतासना मता