हस्त्यश्वरथपादातवृन्दैश्च परिवेष्टितः । निर्जगाम रथारूढो देवीं शैलोपरिस्थिताम्
तमागतं समालोक्य देवी शङ्खमवादयत् । भयदं सर्वदैत्यानां देवानां मोदवर्धनम्
श्रुत्वा शङ्खस्वनं चोग्रं रक्तबीजोऽतिवेगवान् । गत्वा समीपे चामुण्डां बभाषे वचनं मृदु
रक्तबीज उवाच बाले किं मां भीषयसि मत्वा त्वं कातरं किल । शङ्खनादेन तन्वङ्गि वेत्सि किं धूम्रलोचनम्
रक्तबीजोऽस्मि नाम्नाहं त्वत्सकाशमिहागतः । युद्धेच्छा चेत्पिकालापे सज्जा भव भयं न मे
पश्याद्य मे बलं कान्ते दृष्टा ये कातरास्त्वया । नाहं पङ्क्तिगतस्तेषां कुरु युद्धं यथेच्छसि
वृद्धाश्च सेविताः पूर्वं नीतिशास्त्रं श्रुतं त्वया । पतितं चार्थविज्ञानं विद्वद्गोष्ठी कृताथ वा
साहित्यतन्त्रविज्ञानं चेदस्ति तव सुन्दरि । शृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम्
रसानाञ्च नवानां वै द्वावेव मुख्यतां गतौ । शृङ्गारकः शान्तिरसो विद्वज्जनसभासु च
तयोः शृङ्गार एवादौ नृपभावे प्रतिष्ठितः । विष्णुर्लक्ष्म्या सहास्ते वै सावित्र्या चतुराननः
शच्येन्द्रः शैलसुतया शङ्करः सह शेरते । वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः
एवं सर्वे प्राणभृतः संयोगरसिका भृशम् । अप्राप्तभोगविभवा ये चान्ये कातरा नराः
भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः । असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः
मधुरालापनिपुणै रताः शान्तिरसे हि ते । क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे
लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके । तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम्
शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् । व्यास उवाच इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः । श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा
रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् व्यास उवाच कृत्वा हास्यं ततो देवी तमुवाच विशांपते । मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः
पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे । दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम्
सदृशो मम रूपेण बलेन विभवेन च । त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम्
ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता । तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु
त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये । संग्रामं कुरु पातालं गच्छ वा पतिना सह
व्यास उवाच तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः । मुमोच तरसा बाणान्सिंहस्योपरि दारुणान्
अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् । चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात्
अन्यैर्जघान विशिखै रक्तबीजं महासुरम् । अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः
देवीबाणहतः पापो मूर्च्छामाप रथोपरि । पतिते रक्तबीजे तु हाहाकारो महानभूत्
सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् । ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम्
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह । शुम्भ उवाच निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः
अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः । व्यास उवाच इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम्
निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले । तमागतं समालोक्य चण्डिका दानवं बलम्
घण्टानादं चकाराशु भीषणं भयदं मुहुः । ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका