तस्मात्त्वां हन्तुकामैषा प्राप्ता योषिद्वरा प्रभो । युद्धं मा कुरु राजेन्द्र विचार्यैवं धियाधुना
देवी ह्येषा महामाया प्रकृतिः परमा मता । कल्पान्तकाले राजेन्द्र सर्वसंहारकारिणी
उत्पादयित्री लोकानां देवानामीश्वरी शुभा । त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता
अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता । वेदमाता च गायत्री सन्ध्या सर्वसुरालया
निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाव्यया । आनन्दानन्ददा गौरी देवानामभयप्रदा
एवं ज्ञात्वा महाराज वैरभावं त्यजानया । शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति
आज्ञाकरो भवैतस्याः सञ्जीवय निजं कुलम् । हतशेषाश्च ये दैत्यास्ते भवन्तु चिरायुषः
व्यास उवाच इति तेषां वचः श्रुत्वा शुम्भः सुरबलार्दनः । उवाच वचनं तथ्यं वीरवर्यगुणान्वितम्
शुम्भ उवाच मौनं कुर्वन्तु भो मन्दा यूयं भग्ना रणाजिरात् । शीघ्रं गच्छत पातालं जीविताशा बलीयसी
दैवाधीनं जगत्सर्वं का चिन्तात्र जये मम । देवास्तथैव ब्रह्माद्या दैवाधीना वयं यथा
ब्रह्मा विष्णुश्च रुद्रोऽयं यमोऽग्निर्वरुणस्तथा । सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल
का चिन्ता तर्हि मे मन्दा यद्भावि तद्भविष्यति । उद्यमस्तादृशो भूयाद्यादृशी भवितव्यता
सर्वथैव विचार्यैव न शोचन्ति बुधाः क्वचित् । स्वधर्मं न त्यजन्तीह ज्ञानिनो मरणाद्भयात्
सुखं दुःखं तथैवायुर्जीवितं मरणं नृणाम् । काले भवति सम्प्राप्ते सर्वथा दैवनिर्मितम्
ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः । नाशं गच्छन्त्यायुषोऽन्ते सर्वे देवाः सवासवाः
तथाहमपि कालस्य वशगः सर्वथाधुना । नाशं जयं वा गन्तास्मि स्वधर्मपरिपालनात्
आहूतोऽप्यनया कामं युद्धायाबलया किल । कथं पलायनपरो जीवेयं शरदां शतम्
करिष्याम्यद्य संग्रामं यद्भावि तद्भवत्विह । जयो वा मरणं वापि स्वीकरोमि यथा तथा
दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः । युक्तियुक्तं वचस्तेषां ये जानन्त्यभिभाषितम्
उद्यमेन विना कामं न सिध्यन्ति मनोरथाः । कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति
अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः । प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम्
अदृष्टं क्त्वापि दृष्टं स्यादेषा मूर्खविभीषिका । अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा
चक्रीसमीपे संविष्टा संस्थिता पिष्टकारिणी । उद्यमेन विना पिष्टं न भवत्येव सर्वथा
उद्यमे च कृते कार्यं सिद्धिं यात्येव सर्वथा । कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि
देशं कालञ्च विज्ञाय स्वबलं शत्रुजं बलम् । कृतं कार्यं भवत्येव बृहस्पतिवचो यथा
व्यास उवाच इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् । प्रेषयामास संग्रामे सैन्येन महताऽऽवृतम्
शुम्भ उवाच रक्तबीज महाबाहो गच्छ त्वं समराङ्गणे । कुरु युद्धं महाभाग यथा ते बलमाहितम्
रक्तबीज उवाच महाराज न ते कार्या चिन्ता स्वल्पतरापि वा । अहमेनां हनिष्यामि करिष्यामि वशे तव
पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया । दासीं तेऽहं करिष्यामि जित्वेमां समरे बलात्
व्यास उवाच इत्याभाष्य कुरुश्रेष्ठ रक्तबीजो महासुरः । जगाम रथमारुह्य स्वसैन्यपरिवारितः