हाहाकारो महानासीद्दानवानां बले तदा । जहर्षुरमराः सर्वे गगनस्था गतव्यथाः
विहाय मूर्च्छां चण्डस्तु संगृह्य महतीं गदाम् । तरसा ताडयामास कालिकां दक्षिणे भुजे
वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् । तरसा बाणपाशेन मन्त्रमुक्तेन कालिका
उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् । आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम्
आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् । बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम्
गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव । कुर्वती विपुलं हासमाजगामाम्बिकां प्रति
आगत्य तामथोवाच गृहाणेमौ पशू प्रिये । रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ
तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव । अम्बिका कालिकां प्राह माधुरीसंयुतं वचः
वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये । देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया
व्यास उवाच इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः । युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते
आलम्भञ्च करिष्यामि यथा हिंसा न जायते । इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः
चकर्त तरसा काली पपौ च रुधिरं मुदा । एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका
कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् । चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके । चामुण्डेति सुविख्यातं भविष्यति धरातले
रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् व्यास उवाच हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः । पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति
भिन्नाङ्गा विशिखैः केचित्केचिच्छिन्नकरास्तथा । रुधिरस्रावदेहाश्च रुदन्तोऽभिययुः पुरे
गत्वा दैत्यपतिं सर्वे चक्रुर्बुम्बारवं मुहुः । रक्ष रक्ष महाराज भक्षयत्यद्य कालिका
तया हतौ महावीरौ चण्डमुण्डौ सुरार्दनौ । भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः
भीतिदञ्च रणस्थानं कृतं कालिकया प्रभो । पातितैर्गजवीराश्वैर्दासेरकपदातिभिः
शोणितौघवहा कुल्या कृता मांसातिकर्दमा । केशशैवलिनी भग्नरथचक्रविराजिता
छिन्नबाह्वादिमत्स्याढ्या शीर्षतुम्बीफलान्विता । भयदा कातराणां वै सुराणां मोदवर्धिनी
कुलं रक्ष महाराज पातालं गच्छ सत्वरम् । क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः
सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर । तथैव कालिका देवी हन्ति बाणैरनेकधा
तस्मात्त्वमपि राजेन्द्र मरणाय मृषा मतिम् । करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः
किं करिष्यति नार्येषा क्रूरा कुलविनाशिनी । यस्या हेतोर्महाराज हन्तुमिच्छसि बान्धवान्
दैवाधीनौ महाराज लोके जयपराजयौ । अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत्
चित्रं पश्य विधेः कर्म यदधीनं जगत् प्रभो । निहता राक्षसाः सर्वे स्त्रिया पश्यैकयानया
जेता त्वं लोकपालानां सैन्ययुक्तो हि साम्प्रतम् । एका प्रार्थयते बाला युद्धायेति सुसम्भ्रमः
पुरा त्वया तपस्तप्तं पुष्करे देवतायने । वरदानाय सम्प्राप्तो ब्रह्मा लोकपितामहः
धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत । तदा त्वयामरत्वं च प्रार्थितं ब्रह्मणः किल
देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम । सर्पकिन्नरयक्षेभ्यः पुंल्लिङ्गवाचकादपि