काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः । वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः
कुरु युद्धं वीरधर्मरक्षायै त्वं महामते । मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः
किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना । वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम्
शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः । सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम्
क्रमशः सर्वदैत्यानां करिष्याम्यद्य संक्षयम् । विषादं त्यज मन्दात्मन् कुरु युद्धं विशांपते
त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् । ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम्
अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे । गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम्
गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना । किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम्
व्यास उवाच तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ । ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ
सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश । सिंहोऽपि कुपितस्तावन्नादं समकरोद्बली
तेन नादेन शक्राद्या जहर्षुरमरास्तदा । मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः
युद्धं परस्परं तत्र जातं कातरभीतिदम् । चण्डिकाचण्डयोस्तीव्रं बाणखड्गगदादिभिः
चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः । मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव
गगनं छादितं तत्र संग्रामे विशिखैस्तदा । शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः
मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे । मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः
बाणजालं महद् दृष्ट्वा कुद्धा तत्राम्बिका भृशम् । कोपेन वदनं तस्या बभूव घनसन्निभम्
कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा । निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम्
व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका । मुण्डमालाधरा घोरा शुष्कवापीसमोदरा
खड्गपाशधरातीव भीषणा भयदायिनी । खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा
विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः । विस्तारजघना वेगाज्जघानासुरसैनिकान्
करे कृत्वा महावीरांस्तरसा सा रुषान्विता । मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः
गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे । सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह
तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह । निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम्
हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ । छादयामासतुर्देवीं बाणासारैरनन्तरैः
चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् । चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः
नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् । बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम्
तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः । मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम्
पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा । चकार शरवृष्टिञ्च कालिकोपरि कोपतः
चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् । ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात्
अर्धचन्द्रेण बाणेन ताडयामास तं पुनः । पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः