निशुम्भ उवाच न वा पलायनं युक्तं न दुर्गग्रहणं तथा । युद्धमेव परं श्रेयः सर्वथैवानयानघ
ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्वबलामिमाम्
अथवा बलवद्दैवादन्यथा चेद्भविष्यति । मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः
इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ
शशकग्रहणायात्र न युक्तं गजमोचनम् । चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ
इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ । उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ
गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ । हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम्
गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् । आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम्
सा नायाति गृहीतापि गर्विता चाम्बिका यदि । तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता
चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् व्यास उवाच इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ । जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ
दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् । ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः
बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् । निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम्
त्वमेकासि वरारोहे कालिकासिंहसंयुता । जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम्
मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा । देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते
विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् । अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा
किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः । शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः
ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः । जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम्
वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् । हितं तव विशालाक्षि सुखदं दुःखनाशनम्
दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः । सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः
चतुरासि पिकालापे पश्य शुम्भबलं महत् । प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम्
प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल । सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते
शत्रुः सुराणां परमः शुम्भः समरदुर्जयः । तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः
तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते । दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका
कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् । देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम्
भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् । चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥ १६ ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् । निश्चयं परमं कृत्वा भर्तारं भज शोभनम्
व्यास उवाच इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका । मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत्
गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः । त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम्
न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह । स्वामिनी सर्वभूतानामहमेव निशामय
शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः । घातिताश्च मया पूर्वं शतशो दैत्यदानवाः
ममाग्रे देववृन्दानि विनष्टानि युगे युगे । नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै