रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा । तत्सहायाश्च मन्तव्याः समये सुरतापन
अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अम्बिकायाः सहायाशा तत्कार्याशा न काचन
एका नाशयितुं शक्ता जगत्सर्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः
इति ज्ञात्वा महाभाग यथारुचि तथा कुरु । हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः
व्यास उवाच तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः
भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः । बलञ्च शातितं सर्वं गणा भग्नाः समागताः
अम्बिका शङ्खनादं वै करोति मदगर्विता । ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा
तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी
पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् । अभोग्या चाम्बिका नूनं कारणादत्र चागता
युक्तं पलायनं वीर युद्धं वा वद सत्वरम् । लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे
निशुम्भ उवाच न वा पलायनं युक्तं न दुर्गग्रहणं तथा । युद्धमेव परं श्रेयः सर्वथैवानयानघ
ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्वबलामिमाम्
अथवा बलवद्दैवादन्यथा चेद्भविष्यति । मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः
इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ
शशकग्रहणायात्र न युक्तं गजमोचनम् । चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ
इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ । उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ
गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ । हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम्
गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् । आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम्
सा नायाति गृहीतापि गर्विता चाम्बिका यदि । तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता
चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् व्यास उवाच इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ । जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ
दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् । ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः
बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् । निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम्
त्वमेकासि वरारोहे कालिकासिंहसंयुता । जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम्
मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा । देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते
विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् । अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा
किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः । शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः
ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः । जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम्
वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् । हितं तव विशालाक्षि सुखदं दुःखनाशनम्
दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः । सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः
चतुरासि पिकालापे पश्य शुम्भबलं महत् । प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम्