गणा ऊचुः बलञ्च पातितं सर्वं निहतो धूम्रलोचनः । कृतं कालिकया कर्म रणभूमावमानुषम्
शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते । हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत्
यदा निपातिताः सर्वे तेन केसरिणा विभो । रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः
गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः । दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम्
निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति । विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः
विस्मयोऽयं महाराज यदेका जगदम्बिका । भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता
निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा । चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा
सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च । मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि
तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन । पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि
समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ । लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः
रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा । तत्सहायाश्च मन्तव्याः समये सुरतापन
अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अम्बिकायाः सहायाशा तत्कार्याशा न काचन
एका नाशयितुं शक्ता जगत्सर्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः
इति ज्ञात्वा महाभाग यथारुचि तथा कुरु । हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः
व्यास उवाच तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः
भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः । बलञ्च शातितं सर्वं गणा भग्नाः समागताः
अम्बिका शङ्खनादं वै करोति मदगर्विता । ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा
तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी
पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् । अभोग्या चाम्बिका नूनं कारणादत्र चागता
युक्तं पलायनं वीर युद्धं वा वद सत्वरम् । लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे
निशुम्भ उवाच न वा पलायनं युक्तं न दुर्गग्रहणं तथा । युद्धमेव परं श्रेयः सर्वथैवानयानघ
ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्वबलामिमाम्
अथवा बलवद्दैवादन्यथा चेद्भविष्यति । मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः
इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ
शशकग्रहणायात्र न युक्तं गजमोचनम् । चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ
इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ । उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ
गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ । हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम्
गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् । आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम्
सा नायाति गृहीतापि गर्विता चाम्बिका यदि । तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता
चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् व्यास उवाच इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ । जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ