इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा । हुङ्कारेणैव तं भस्म चकार तरसाम्बिका
दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः । चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि
देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् । मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः
रणभूमिस्तदा राजन् दारुणा समपद्यत । निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा
गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा । ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु
अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे । गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम्
तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः । दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान्
छिन्नपादकराक्षांश्च मञ्चकारोपितानपि । भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः
वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः । कथं भग्नाः समायाता नानीता किं वरानना
सैन्यं कुत्र गतं मन्दाः कथयन्तु यथोचितम् । कस्यायं शङ्खनादोऽद्य श्रूयते भयवर्धनः
गणा ऊचुः बलञ्च पातितं सर्वं निहतो धूम्रलोचनः । कृतं कालिकया कर्म रणभूमावमानुषम्
शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते । हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत्
यदा निपातिताः सर्वे तेन केसरिणा विभो । रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः
गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः । दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम्
निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति । विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः
विस्मयोऽयं महाराज यदेका जगदम्बिका । भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता
निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा । चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा
सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च । मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि
तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन । पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि
समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ । लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः
रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा । तत्सहायाश्च मन्तव्याः समये सुरतापन
अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अम्बिकायाः सहायाशा तत्कार्याशा न काचन
एका नाशयितुं शक्ता जगत्सर्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः
इति ज्ञात्वा महाभाग यथारुचि तथा कुरु । हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः
व्यास उवाच तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः
भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः । बलञ्च शातितं सर्वं गणा भग्नाः समागताः
अम्बिका शङ्खनादं वै करोति मदगर्विता । ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा
तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी
पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् । अभोग्या चाम्बिका नूनं कारणादत्र चागता
युक्तं पलायनं वीर युद्धं वा वद सत्वरम् । लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे