नो वेत्ति विष्णुरधुना मम दुःखमेत- ज्जाने त्वयात्मविवशीकृतदेहयष्टिः । मुञ्चादिदेवमथवा जहि दानवेन्द्रौ यद्रोचते तव कुरुष्व महानुभावे
जानन्ति ये न तव देवि परं प्रभावं ध्यायन्ति ते हरिहरावपि मन्दचित्ताः । ज्ञातं मयाद्य जननि प्रकटं प्रमाणं यद्विष्णुरप्यतितरां विवशोऽथ शेते
सिन्धूद्भवापि न हरिं प्रतिबोधितुं वै शक्ता पतिं तव वशानुगमद्य शक्त्या । मन्ये त्वया भगवति प्रसभं रमापि प्रस्वापिता न बुबुधे विवशीकृतेव
धन्यास्त एव भुवि भक्तिपरास्तवांघ्रौ त्यक्त्वान्यदेवभजनं त्वयि लीनभावाः । कुर्वन्ति देवि भजनं सकलं निकामं ज्ञात्वा समस्तजननीं किल कामधेनुम्
धीकान्तिकीर्तिशुभवृत्तिगुणादयस्ते विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य । बन्दीकृतो हरिरसौ ननु निद्रयात्र शक्त्या तवैव भगवत्यतिमानवत्याः
त्वं शक्तिरेव जगतामखिलप्रभावा त्वन्निर्मितं च सकलं खलु भावमात्रम् । त्वं क्रीडसे निजविनिर्मितमोहजाले नाट्ये यथा विहरते स्वकृते नटो वै
विष्णुस्त्वया प्रकटितः प्रथमं युगादौ दत्ता च शक्तिरमला खलु पालनाय । त्रातं च सर्वमखिलं विवशीकृतोऽद्य यद्रोचते तव तथाम्ब करोषि नूनम्
सृष्ट्वात्र मां भगवति प्रविनाशितुं चे- न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् । कस्मादिमौ प्रकटितौ किल कालरूपौ यद्वा भवानि हसितुं नु किमिच्छसे माम्
ज्ञातं मया तव विचेष्टितमद्भुतं वै कृत्वाखिलं जगदिदं रमसे स्वतन्त्रा । लीनं करोषि सकलं किल मां तथैव हन्तुं त्वमिच्छसि भवानि किमत्र चित्रम्
कामं कुरुष्व वधमद्य ममैव मात- र्दुःखं न मे मरणजं जगदम्बिकेऽत्र । कर्ता त्वयैव विहितः प्रथमं स चायं दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम्
उत्तिष्ठ देवि कुरु रूपमिहाद्भुतं त्वं मां वा त्विमौ जहि यथेच्छसि बाललीले । नो चेत्प्रबोधय हरिं निहनेदिमौ य- स्त्वत्साध्यमेतदखिलं किल कार्यजातम्
सूत उवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा । निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा
त्यक्त्वाङ्गानि च सर्वाणि विष्णोरतुलतेजसः । निर्गता योगनिद्रा सा नाशाय च तयोस्तदा
विस्पन्दितशरीरोऽसौ यदा जातो जनार्दनः । धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः
आराध्यनिर्णयवर्णनम् ऋषय ऊचुः सन्देहोऽत्र महाभाग कथायां तु महाद्भुतः । वेदशास्त्रपुराणैश्च निश्चितं तु सदा बुधैः
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः । नातः परतरं किञ्चिद्ब्रह्माण्डेऽस्मिन्महामते
ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत् । रुद्रः संहरते काले त्रय एतेऽत्र कारणम्
एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । रजःसत्त्वतमोभिश्च संयुताः कार्यकारकाः
तेषां मध्ये हरिः श्रेष्ठो माधवः पुरुषोत्तमः । आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु
नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः । स कथं स्वापितः स्वामी विवशो योगमायया
क्व गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः । सन्देहोऽयं महाभाग कथयस्व यथाशुभम्
का सा शक्तिः पुरा प्रोक्ता यया विष्णुजितः प्रभुः । कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत
यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः । परमात्मा परानन्दः सच्चिदानन्दविग्रहः
सर्वकृत्सर्वभृत्स्रष्टा विरजः सर्वगः शुचिः । स कथं निद्रया नीतः परतन्त्रः परात्परः
एतदाश्चर्यभूतो हि सन्देहो नः परन्तप । छिन्धि ज्ञानासिना सूत व्यासशिष्य महामते
सूत उवाच कः सन्देहं भिनत्त्येनं त्रैलोक्ये सचराचरे । मुह्यन्ति मुनयः कामं ब्रह्मपुत्राः सनातनाः
नारदः कपिलश्चैव प्रश्नेऽस्मिन्मुनिसत्तमाः । किं ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने
देवेषु विष्णुः कथितः सर्वगः सर्वपालकः । यतो विराडिदं सर्वमुत्पन्नं सचराचरम्
ते सर्वे समुपासन्ते नत्वा देवं परात्परम् । नारायणं हृषीकेशं वासुदेवं जनार्दनम्
तथा केचिन्महादेवं शङ्करं शशिशेखरम् । त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम्