भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् । पट्टराज्ञी प्रिया भूत्वा भुंक्ष्व भोगाननुत्तमान्
जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् । विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति
भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी । एवं सङ्गरयोगेन पतिर्मे परमार्थवित्
जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति । रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम्
स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः । भविता मानसः कामो रतिसंग्रामजस्तव
दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये । वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम्
भज शुम्भं गणाध्यक्षं माननीयातिमानिनी । मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये
न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे । अशोकं कुरु राजानं पादाघातविकासितम्
बकुलं सीधुसेकेन तथा कुरबकं कुरु
देव्यासह युद्धाय चण्डमुण्डप्रेषणम् व्यास उवाच इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः । प्रत्युवाच तदा काली प्रहस्य ललितं वचः
विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे । वृथा मनोरथांश्चित्ते करोषि मधुरं वदन्
बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना । कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना
हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् । देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम्
क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी । अयुक्तः खलु संसारे विवाहविधिरेतयोः
सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् । करिणी गर्दभं वापि गवयं सुरभिः किमु
गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम । कुरु युद्धं न चेद्याहि पातालं तरसाधुना
व्यास उवाच कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः । तामुवाच महाभाग क्रोधसंरक्तलोचनः
दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् । गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल
रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् । नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये
कालिकोवाच किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् । स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि
व्यास उवाच तच्छ्रुत्वा वचनं दैत्यः संगृह्य कार्मुकं दृढम् । कालिकां तां शरासारैर्ववर्षातिशिलाशितैः
देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः । तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः
तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् । बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम्
कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ । बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः
स चान्यं रथमारूढः कोपेन प्रज्वलन्निव । बाणवृष्टिं चकारोग्रां कालिकोपरि भारत
सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् । मुमोचान्यानुग्रवेगान्दानवोपरि कालिका
तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः । बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि
चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः । मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत्
विरथः परिघं गृह्य सर्वलोहमयं दृढम् । आजगाम रथोपस्थं कुपितो धूम्रलोचनः
वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः । अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने