नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् । अहं गच्छामि संग्रामे त्वं वा गच्छ बलान्वितः
यद्रोचते निशुम्भात्र तत्कर्तव्यं मया किल । निशुम्भ उवाच न मया न त्वया वीर गन्तव्यं रणमूर्धनि
प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् । स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम्
आगमिष्यति शुम्भात्र विवाहः संविधीयताम् । व्यास उवाच तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ॥ ३५ कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् । शुम्भ उवाच धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः
गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् । देवो वा दानवो वापि मनुष्यो वा महाबलः
तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया । तत्पार्श्ववर्तिनीं कालीं हत्वा संगृह्य तां पुनः
शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् । रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान्
यत्नेन महता वीर मृदुदेहा कृशोदरी । तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः
सर्वथा सा न हन्तव्या रक्षणीया प्रयत्नतः । व्यास उवाच इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः
प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे । असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा
स ददर्श ततो देवीं रम्योपवनसंस्थिताम् । दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः
उवाच वचनं श्लक्ष्णं हेतुमद्रसभूषितम् । शृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः
दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः । रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम्
तेनागत्य वचः प्रोक्तं विपरीतं वरानने । वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः
बभूव रसमार्गज्ञे शुम्भः कामविमोहितः । दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव
यो मां जयति संग्रामे यदुक्तं कठिनं वचः । न ज्ञातस्तेन संग्रामो द्विविधः खलु मानिनि
रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः । रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः
सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः । जानाम्यहं वरारोहे भवत्या मानसं किल
रतिसंग्रामभावस्ते हृदये परिवर्तते । इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः
प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् । चतुरासि महाभागे शृणु मे वचनं मृदु
भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् । पट्टराज्ञी प्रिया भूत्वा भुंक्ष्व भोगाननुत्तमान्
जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् । विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति
भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी । एवं सङ्गरयोगेन पतिर्मे परमार्थवित्
जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति । रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम्
स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः । भविता मानसः कामो रतिसंग्रामजस्तव
दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये । वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम्
भज शुम्भं गणाध्यक्षं माननीयातिमानिनी । मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये
न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे । अशोकं कुरु राजानं पादाघातविकासितम्
बकुलं सीधुसेकेन तथा कुरबकं कुरु
देव्यासह युद्धाय चण्डमुण्डप्रेषणम् व्यास उवाच इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः । प्रत्युवाच तदा काली प्रहस्य ललितं वचः