इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे । तं कथं समरे देवि जेतुमिच्छसि भामिनि
त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् । का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम्
अविचार्य न वक्तव्यं वचनं चापि सुन्दरि । बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम्
त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः । त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये
त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम । भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते
शृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा । सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः
नागमिष्यसि चेद् बाले संक्रुद्धः पृथिवीपतिः । अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम्
केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः । त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ
स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज । मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै
क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् । सारासारं परिच्छेद्य कुरु मे वचनं पटु
भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् । देव्युवाच सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि
निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् । प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत्
तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् । विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात्
जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् । युद्धेच्छया समायातां विद्धि मामबलां नृप
युद्धं देहि समर्थोऽसि वीरधर्मं समाचर । बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम्
त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते । इति दूत वदाशु त्वं गत्वा स्वपतिमादरात्
स विचार्य यथायुक्तं करिष्यति महाबलः । संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल
शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् । व्यास उवाच अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम्
हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा । गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः
प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् । राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः
दूत उवाच सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् । सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल
अप्रियं वदतां कामं राजा कुप्यति सर्वथा । साक्षात्कुतः समायाता कस्य वा किंबलाबला
न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् । युद्धकामा मया दृष्टा गर्विता कटुभाषिणी
तया यत्कथितं सम्यक् तच्छृणुष्व महामते । मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः
सखीनां पुरतः कामं विवाहं प्रति सर्वथा । यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै
तं वरिष्याम्यहं कामं पतिं समबलं किल । न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम
तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु । तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः
यथेच्छसि महाराज तथा कुरु तव प्रियम् । सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी
निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् । व्यास उवाच इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः
पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् । शुम्भ उवाच भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते