निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम । त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम्
दातारं गुणिनं शूरं सर्वविद्याविशारदम् । जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम्
भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् । पतिकामास्म्यहं सत्यं तव योग्या नराधिप
स्वेच्छया नगरे तेऽत्र समायाता महामते । ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम
बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा । क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया
स्वदेहबलदर्पेण सखीनां पुरतो रहः । मत्समानबलः शूरो रणे मां जेष्यति स्फुटम्
तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् । जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः
किमेतया कृतं क्रूरं व्रतमद्भुतमाशु वै । तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलम्
जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः । त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे । जित्वा मां समरेणात्र विवाहं कुरु सुन्दर
देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् व्यास उवाच देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः । किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात्
इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे । तं कथं समरे देवि जेतुमिच्छसि भामिनि
त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् । का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम्
अविचार्य न वक्तव्यं वचनं चापि सुन्दरि । बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम्
त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः । त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये
त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम । भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते
शृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा । सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः
नागमिष्यसि चेद् बाले संक्रुद्धः पृथिवीपतिः । अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम्
केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः । त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ
स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज । मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै
क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् । सारासारं परिच्छेद्य कुरु मे वचनं पटु
भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् । देव्युवाच सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि
निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् । प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत्
तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् । विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात्
जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् । युद्धेच्छया समायातां विद्धि मामबलां नृप
युद्धं देहि समर्थोऽसि वीरधर्मं समाचर । बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम्
त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते । इति दूत वदाशु त्वं गत्वा स्वपतिमादरात्
स विचार्य यथायुक्तं करिष्यति महाबलः । संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल
शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् । व्यास उवाच अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम्
हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा । गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः
प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् । राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः