एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि । कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना
सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ । अनया सम्भविष्यन्ति रत्नभूतानि भूपते
त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया । तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम्
व्यास उवाच इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् । प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम्
गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण । वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी
उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामदाने इति प्राहुः शृङ्गाररसकोविदाः
भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः
सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा । का न याति वशे दूत कामिनी कामपीडिता
व्यास उवाच सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु । जगाम तरसा तत्र यत्रास्ते जगदम्बिका
सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम्
दूत उवाच वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः । त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः
तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना । त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता
वचनं तस्य तन्वङ्गि शृणु प्रेमपुरःसरम् । प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि
देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् । यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा
हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता । यानि रत्नानि देवानां तानि चाहृतवानहम्
भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि । वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः
त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् । त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम्
त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः । दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः
भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् । त्रैलोक्यस्वामिनी भूत्वा भुंक्ष्व भोगाननुत्तमान्
तव चाज्ञाकरः कान्ते भवामि मरणावधि । अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः
सदा सौभाग्यसंयुक्ता भविष्यसि वरानने । यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि
इति तस्य वचश्चित्ते विमृश्य मदमन्थरे । वक्तव्यं यद्भवेत्प्रेम्णा तद् ब्रूहि मधुरं वचः
शुम्भाय चञ्चलापाङ्गि तद्ब्रवीम्यहमाशु वै । व्यास उवाच तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम्
तं प्राह मधुरां वाचं देवी देवार्थसाधिका । देव्युवाच जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम्
जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् । राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम्
दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् । द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः
ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् । रत्नं कनकमायाति स्वशोभाधिकवृद्धये
तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै । दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः
गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः । सर्वे शुम्भभयाद्भीता वेपमाना विचेतसः
श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया । गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम्