ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता । गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी
ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् । निश्चितं नास्ति संसारे नारी त्वेवंविधा किल
देवानां सर्वरत्नानि गृहीतानि त्वया नृप । कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम
इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा । गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल
विमानं वैधसं दिव्यं मरालध्वजसंयुतम् । त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम्
कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः । छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात्
पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम । गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च
अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ । भयात्तव महाराज रत्नानि विविधानि च
मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः । त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप
कामधेनुर्गहीताद्य वर्तते सागरोद्भवा । मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः
एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि । कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना
सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ । अनया सम्भविष्यन्ति रत्नभूतानि भूपते
त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया । तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम्
व्यास उवाच इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् । प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम्
गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण । वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी
उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामदाने इति प्राहुः शृङ्गाररसकोविदाः
भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः
सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा । का न याति वशे दूत कामिनी कामपीडिता
व्यास उवाच सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु । जगाम तरसा तत्र यत्रास्ते जगदम्बिका
सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम्
दूत उवाच वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः । त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः
तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना । त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता
वचनं तस्य तन्वङ्गि शृणु प्रेमपुरःसरम् । प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि
देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् । यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा
हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता । यानि रत्नानि देवानां तानि चाहृतवानहम्
भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि । वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः
त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् । त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम्
त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः । दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः
भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् । त्रैलोक्यस्वामिनी भूत्वा भुंक्ष्व भोगाननुत्तमान्
तव चाज्ञाकरः कान्ते भवामि मरणावधि । अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः