इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा । कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः
सा गत्वोपवने तस्थावम्बिका कालिकान्विता । जगावथ कलं तत्र जगन्मोहनमोहनम्
श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः । मुदञ्च परमां प्रापुरमरा गगने स्थिताः
तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ । चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया
आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् । अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम्
दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ । जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम
तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे । ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम्
राजन् हिमालयात्कामं कामिनी काममोहिनी । सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता
नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा । न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा
गानञ्च तादृशं राजन् करोति जनरञ्जनम् । मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः
ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता । गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी
ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् । निश्चितं नास्ति संसारे नारी त्वेवंविधा किल
देवानां सर्वरत्नानि गृहीतानि त्वया नृप । कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम
इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा । गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल
विमानं वैधसं दिव्यं मरालध्वजसंयुतम् । त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम्
कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः । छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात्
पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम । गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च
अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ । भयात्तव महाराज रत्नानि विविधानि च
मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः । त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप
कामधेनुर्गहीताद्य वर्तते सागरोद्भवा । मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः
एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि । कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना
सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ । अनया सम्भविष्यन्ति रत्नभूतानि भूपते
त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया । तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम्
व्यास उवाच इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् । प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम्
गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण । वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी
उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामदाने इति प्राहुः शृङ्गाररसकोविदाः
भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः
सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा । का न याति वशे दूत कामिनी कामपीडिता
व्यास उवाच सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु । जगाम तरसा तत्र यत्रास्ते जगदम्बिका
सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम्