त्रिभिस्त्वं पुराराधिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा । त्वया संयुतास्ते प्रकुर्वन्ति कामं जगत्पालनोत्पत्तिसंहारमेव
ते किं न मन्दमतयो यतयो विमूढा- स्त्वां ये न विश्वजननीं समुपाश्रयन्ति । विद्यां परां सकलकामफलप्रदां तां मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम्
ये वैष्णवाः पाशपताश्च सौरा दम्भास्त एव प्रतिभान्ति नूनम् । ध्यायन्ति न त्वां कमलाञ्च लज्जां कान्तिं स्थितिं कीर्तिमथापि पुष्टिम्
हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा । भुवि भजन्ति न येऽल्पधियो नरा जननि ते विधिना खलु वञ्चिताः
जलधिजापदपङ्कजरञ्जनं जतुरसेन करोति हरिः स्वयम् । त्रिनयनोऽपि धराधरजाङ्घ्रिपं- कजपरागनिषेवणतत्परः
किमपरस्य नरस्य कथानकै- स्तव पदाब्जयुगं न भजन्ति के । विगतरागगृहाश्च दयां क्षमां कृतधियो मुनयोऽपि भजन्ति ते
देवि त्वदङ्घ्रिभजने न जना रता ये संसारकूपपतिताः पतिताः किलामी । ते कुष्ठगुल्मशिरआधियुता भवन्ति दारिद्र्यदैन्यसहिता रहिताः सुखौघैः
ये काष्ठभारवहने यवसावहारे कार्ये भवन्ति निपुणा धनदारहीनाः । जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा पूर्वे भवे जननि तैर्न कृता कदापि
व्यास उवाच एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता । प्रादुर्बभूव तरसा रूपयौवनसंयुता
दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता
जगन्मोहनलावण्या सर्वलक्षणलक्षिता । अद्वितीयस्वरूपा सा देवानां दर्शनं गता
जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् । दिव्यरूपधरा देवी विश्वमोहनमोहिनी
देवान्स्तुतिपरानाह मेघगम्भीरया गिरा । प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी
देव्युवाच भो भोः सुरवराः कात्र भवद्भिः स्तूयते भृशम् । किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः
व्यास उवाच तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा । प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः
देवा ऊचुः देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे । पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान्
पुरा त्वया महादेवि निहत्यासुरकण्टकम् । महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि
स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् । तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि
अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ । उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल
रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ । एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः
गतिरन्या न चास्माकं त्वमेवासि महाबले । कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे
देवास्त्वदङ्घ्रिभजने निरताः सदैव ते दानवैरतिबलैर्विपदं सुनीताः । तान्देवि दुःखरहितान् कुरु भक्तियुक्ता- न्मातस्त्वमेव शरणं भव दुःखितानाम्
सकलभुवनरक्षा देवि कार्या त्वयाद्य स्वकृतमिति विदित्वा विश्वमेतद्युगादौ । जननि जगति पीडां दानवा दर्पयुक्ताः स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः
देव्या सुग्रीवदूताय स्वव्रतकथनम् व्यास उवाच एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः । स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह
पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा । कौशिकीति समस्तेषु ततो लोकेषु पठ्यते
निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् । कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता
मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी । कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा
अम्बिकायाः परं रूपं विरराज मनोहरम् । सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम्
ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता । तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह
कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे । निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे