इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः । ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः
विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे । तं कुरुष्वाद्य विधिवद्यथा नो दुःखसंक्षयः
भवेदांगिरसाद्यैव तथा त्वं कर्तुमर्हसि । दानवानां विनाशाय अभिचारं यथामति
बृहस्पतिरुवाच सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते । न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः
मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् । जाताः स्म कालयोगेन किं करोमि प्रसाधनम्
इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु । ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः
अवश्यम्भाविभावानां प्रतीकारो न विद्यते । उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम्
दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः । उपायवादिनो दैवं प्रवदन्ति निरर्थकम्
दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् । केवलं दैवमाश्रित्य न स्थातव्यं कदाचन
उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः । तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः
पुरा भगवती तुष्टा जघान महिषासुरम् । युष्माभिस्तु स्तुता देवी वरदानं ददावथ
आपदं नाशयिष्यामि संस्मृता वा सदैव हि । यदा यदा वो देवेशा आपदो दैवसम्भवाः
प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा । स्मृताहं नाशयिष्यामि युष्माकं परमापदः
तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे । आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम्
मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः । जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति
दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः । तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम्
स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति । निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम्
सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति । व्यास उवाच इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम्
हिमालयं महाराज देवीध्यानपरायणाः । मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि
नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् । तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः
नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते । नमो दानवान्तप्रदे मानवाना- मनेकार्थदे भक्तिगम्यस्वरूपे
न ते नामसंख्यां न ते रूपमीदृ- क्तथा कोऽपि वेदादिदेवस्वरूपे । त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव
स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि- र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती । सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम्
यदा यैः स्वरूपैः करोषीह कार्यं सुराणां च तेभ्यो नमामोऽद्य शान्त्यै । क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः
कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः । दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता
किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव । यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम्
न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्ववन्द्ये । कृपापात्रमित्येव मत्वा तथास्मा- न्भयेभ्यः सदा पाहि पातुं समर्थे
विना बाणपातैर्विना मुष्टिघातै- र्विनाशूलखड्गैर्विना शक्तिदण्डैः । रिपून्हन्तुमेवासि शक्ता विनोदा- त्तथापीह लोकोपकाराय लीला
इदं शाश्वतं नैव जानन्ति मूढा न कार्यं विना कारणं सम्भवेद्वा । वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्तास्य विश्वस्य चेति
अजः सृष्टिकर्ता मुकुन्दोऽवितायं हरो नाशकृद्वै पुराणे प्रसिद्धः । न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता