जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः । तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः
सम्भवन्ति तदाकारास्तद्रूपास्तत्पराक्रमाः । युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः
अतः सोऽपि महावीर्यः संग्रामेऽतीव दुर्जयः । अवध्यः सर्वभूतानां रक्तबीजो महासुरः
अन्ये च बहवः शूराश्चतुरङ्गसमन्विताः । शुम्भञ्च नृपतिं मत्वा बभूवुस्तस्य सेवकाः
असंख्याता तदा जाता सेना शुम्भनिशुम्भयोः । पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया
सेनायोगं तदा कृत्वा निशुम्भः परवीरहा । जगाम तरसा स्वर्गे शचीपतिजयाय च
चकारासौ महायुद्धं लोकपालैः समन्ततः । वृत्रहा वज्रपातेन ताडयामास वक्षसि
स वज्राभिहतो भूमौ पपात दानवानुजः । भग्नं बलं तदा तस्य निशुम्भस्य महात्मनः
भ्रातरं मूर्च्छितं श्रुत्वा शुम्भः परबलार्दनः । तत्रागत्य सुरान्मर्वांस्ताडयामास सायकैः
कृतं युद्धं महत्तेन शुम्भेनाक्लिष्टकर्मणा । निर्जितास्तु सुराः सर्वे सेन्द्राः पालाश्च सर्वशः
ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया । कल्पपादपसंयुक्तं कामधेनुसमन्वितम्
त्रैलोक्यं यज्ञभागाश्च हृतास्तेन महात्मना । नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः
सुधायाश्चैव पानेन सुखमाप महासुरः । कुबेरं स च निर्जित्य तस्य राज्यं चकार ह
अधिकारं तथा भानोः शशिनश्च चकार ह । यमञ्चैव विनिर्जित्य जग्राह तत्पदं तथा
वरुणस्य तथा राज्यं चकार वह्निकर्म च । वायोः कार्यं निशुम्भश्च चकार स्वबलान्वितः
ततो देवा विनिर्धूता हृतराज्या हृतश्रियः । सन्त्यज्य नन्दनं सर्वे निर्ययुर्गिरिगह्वरे
हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने । निरालम्बा निराधारा निस्तेजस्का निरायुधाः
विचेरुरमराः सर्वे पर्वतानां गुहासु च । उद्यानेषु च शून्येषु नदीनां गह्वरेषु च
न प्रापुस्ते सुखं वापि स्थानभ्रष्टा विचेतसः । लोकपाला महाराज दैवाधीनं सुखं किल
बलवन्तो महाभागा बहुज्ञा धनसंयुताः । काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप
चित्रमेतन्महाराज कालस्यैव विचेष्टितम् । यः करोति नरं तावद्राजानं भिक्षुकं ततः
दातारं याचकं चैव बलवन्तं तथाबलम् । पण्डितं विकलं कामं शूरं चातीव कातरम्
मखानाञ्च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम् । पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी
कालः करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम् । तमेवातीव पापिष्ठं ज्ञानलेशविवर्जितम्
न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते । ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम्
विष्णुर्जननमाप्नोति सूकरादिषु योनिषु । हरः कपाली सञ्जातः कालेनैव बलीयसा
देवकृतदेव्याराधनवर्णनम् व्यास उवाच पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह । एवं वर्षसहस्रं तु जगाम नृपसत्तम
भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् । गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः
किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः । उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये
उपचारपरा नूनं वेदमन्त्राः सहस्रशः । वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल