तान्निहत्य सुराणां सा जहार भयमुत्तमम् । स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे
राजोवाच कावेतावसुरावादौ कथं तौ बलिनां वरौ । केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ
तपसा वरदानेन कस्य जातौ महाबलौ । कथञ्च निहतौ सर्वं कथयस्व सविस्तरम्
व्यास उवाच शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् । देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम्
पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले । पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ
तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् । अन्नोदकं परित्यज्य पुष्करे लोकपावने
वर्षाणामयुतं यावद्योगविद्यापरायणौ । एकत्रैवासनं कृत्वा तेपाते परमं तपः
तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः । तत्रागतश्च भगवानारुह्य वरटापतिम्
तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ । उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल
वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह । कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम्
व्यास उवाच इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ । प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा
दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती । ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा
देवदेव दयासिन्धो भक्तानामभयप्रद । अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो
मरणादपरं किञ्चिद्भयं नास्ति धरातले । तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ
त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे । परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम्
ब्रह्मोवाच किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा । अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा विहिता लोके पूर्वं विश्वकृता किल
मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः । अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम्
व्यास उवाच तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ । ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम्
पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः । अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम्
नारी बलवती कास्ति या नौ नाशं करिष्यति । न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे
अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव । भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा
व्यास उवाच इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् । ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम्
गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ । भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा
शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् । कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः
शुम्भाय ज्येष्ठभूताय ददौ राज्यासनं शुभम् । सेवनार्थं तदैवाशु सम्प्राप्ता दानवोत्तमाः
चण्डमुण्डौ महावीरौ भ्रातरौ बलदर्पितौ । सम्प्राप्तौ सैन्यसंयुक्तौ रथवाजिगजान्वितौ
धूम्रलोचननामा च तद्रूपश्चण्डविक्रमः । शुम्भञ्च भूपतिं श्रुत्वा तदागाद्बलसंयुतः
रक्तबीजस्तथा शूरो वरदानबलाधिकः । अक्षौहिणीभ्यां संयुक्तस्तत्रैवागत्य सङ्गतः
तस्यैकं कारणं राजन् संग्रामे युध्यतः सदा । देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च