क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव । न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा
पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप । न वेदद्वेषिणः पापा मानवाः पृथिवीपते
सर्वधर्मरता नित्यं द्विजसेवापरायणाः । त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः
सात्त्विका राजसाश्चैव तामसाश्च तथापरे । सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः
प्रतिग्रहविहीनाश्च दयादमपरायणाः । यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः
पुरोडाशविधानैश्च पशुभिर्न कदाचन । दानमध्ययनञ्चैव यजनं तु तृतीयकम्
त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप । राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः
षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः । यजनं याजनं दानं तथैव च प्रतिग्रहः
अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् । तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः
राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः । महिषे निहते सर्वे सुखिनो वेदतत्पराः
बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा । क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः
कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे । एवं प्रमुदितो लोको महिषे विनिपातिते
अनुद्वेगः प्रजानां वै सम्बभूव धनागमः । बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः
वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः । नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः
न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले सकलविभवयुक्ता रोगहीनाः सदैव । निगमविहितधर्मे तत्पराश्चण्डिकाया- श्चरणसरसिजानां सेवने दत्तचित्ताः
शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् व्यास उवाच शृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम्
यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ । बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल
बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ
हतावम्बिकया तौ तु संग्रामेऽतीव दारुणे । देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह
चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः । धूम्रलोचननामा च निहतास्ते रणाङ्गणे
तान्निहत्य सुराणां सा जहार भयमुत्तमम् । स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे
राजोवाच कावेतावसुरावादौ कथं तौ बलिनां वरौ । केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ
तपसा वरदानेन कस्य जातौ महाबलौ । कथञ्च निहतौ सर्वं कथयस्व सविस्तरम्
व्यास उवाच शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् । देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम्
पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले । पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ
तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् । अन्नोदकं परित्यज्य पुष्करे लोकपावने
वर्षाणामयुतं यावद्योगविद्यापरायणौ । एकत्रैवासनं कृत्वा तेपाते परमं तपः
तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः । तत्रागतश्च भगवानारुह्य वरटापतिम्
तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ । उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल
वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह । कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम्