तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् । नारायणं जगन्नाथं निस्पन्दं योगनिद्रया
ब्रह्मोवाच दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव । भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते
अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते । दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर
सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित । उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम्
विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन । जगद्योने निराकार सर्गस्थित्यन्तकारक
इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ । न जानास्यखिलाधार कथं मां सङ्कटे गतम्
उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् । पालकत्वं महाविष्णो निराधारं भवेत्ततः
एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः । योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत्
नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः । जजागार न धर्मात्मा किं करोम्यद्य दुःखितः
हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ । किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित्
इति संचिन्त्य मनसा निश्चयं प्रतिपद्य च । तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः
विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा । यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः
व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह । तथा हरिर्न जानाति निद्रामीलितलोचनः
न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ । मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः
यो यस्य वशमापन्तः स तस्य किङ्करः किल । तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः
सिन्धुजाया अपि वशे यया स्वामी वशीकृतः । नूनं जगदिदं सर्वं भगवत्या वशीकृतम्
अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा । सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा
हरिरप्यवशः शेते यथान्यः प्राकृतो जनः । ययाभिभूतः का वार्ता किलान्येषां महात्मनाम्
स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः । घटयिष्यति युद्धे च वासुदेवः सनातनः
इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा । तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम्
ब्रह्मोवाच देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेदवचोभिरम्ब । यद्विष्णुरप्यखिललोकविवेककर्ता निद्रावशं च गमितः पुरुषोत्तमोऽद्य
को वेद ते जननि मोहविलासलीलां मूढोऽस्म्यहं हरिरयं विवशश्च शेते । ईदृक्तया सकलभूतमनोनिवासे विद्वत्तमो विबुधकोटिषु निर्गुणायाः
सांख्या वदन्ति पुरुषं प्रकृतिं च यां तां चैतन्यभावरहितां जगतश्च कर्त्रीम् । किं तादृशासि कथमत्र जगन्निवास- श्चैतन्यताविरहितो विहितस्त्वयाद्य
नाट्यं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगम् । ध्यायन्ति यां मुनिगणा नियतं त्रिकालं सन्ध्येति नाम परिकल्प्य गुणान् भवानि
बुद्धिर्हि बोधकरणा जगतां सदा त्वं श्रीश्चासि देवि सततं सुखदा सुराणाम् । कीर्तिस्तथा मतिधृती किल कान्तिरेव श्रद्धा रतिश्च सकलेषु जनेषु मातः
नातः परं किल वितर्कशतैः प्रमाणं प्राप्तं मया यदिह दुःखगतिं गतेन । त्वं चात्र सर्वजगतां जननीति सत्यं निद्रालुतां वितरता हरिणात्र दृष्टम्
त्वं देवि वेदविदुषामपि दुर्विभाव्या वेदोऽपि नूनमखिलार्थतया न वेद । यस्मात्त्वदुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलं तव कार्यमेतत्
कस्ते चरित्रमखिलं भुवि वेद धीमा- न्नाहं हरिर्न च भवो न सुरास्तथान्ये । ज्ञातुं क्षमाश्च मुनयो न ममात्मजाश्च दुर्वाच्य एव महिमा तव सर्वलोके
यज्ञेषु देवि यदि नाम न ते वदन्ति स्वाहेति वेदविदुषो हवने कृतेऽपि । न प्राप्नुवन्ति सततं मखभागधेयं देवास्त्वमेव विबुधेष्वपि वृत्तिदासि
त्राता वयं भगवति प्रथमं त्वया वै देवारिसम्भवभयादधुना तथैव । भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि घोरं निरीक्ष्य मधुना सह कैटभं च