तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् । मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः
यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च । बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम्
ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे । यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च
भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम्
अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी
ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव
तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् । कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम्
हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा
कथितं ते महाभाग गतान्तर्धानमाशु सा । स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी
लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता । अथवा हेमशैले सा तत्त्वतो मे वदाधुना
व्यास उवाच पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् । क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम्
यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे । पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे
यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः । नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका
स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा । यत्र संक्रीडते नित्यं मायाशक्तिः सनातनी
देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा । रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम्
अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् । सर्वलक्षणसम्पन्नं महिषस्यासने शुभे
दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः । स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते
गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते । धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा
पर्जन्यः कालवर्षी च धरा धान्यगुणावृता । पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा
गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् । नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः
ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा । क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः
शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः । न्यायदण्डधराः सर्वे राजानः शमसंयुताः
अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह । आकरा धनदा नृणां व्रजा गोयूथसंयुताः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले
सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः । मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः
पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः । पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः
न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले । वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन्
कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः । सर्वत्र सुखिनो लोकाः काले च मरणं तथा
सुहृदां न वियोगश्च नापदश्च कदाचन । नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम्
न रोगो न च मात्सर्यं न विरोधः परस्परम् । सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः