द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् । नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि
तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति । पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु
प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः । मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः
सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् । पाहि नः सततं देवि सर्वैस्तव वरायुधैः
अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः । व्यास उवाच एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत । विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम्
महिषवधानन्तरं पृथिवीसुखवर्णनम् जनमेजय उवाच - अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च । न तृप्तिरस्ति द्विजवर्य शृण्वतः कथामृतं ते मुखपद्मजातम्
अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते । देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम्
कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः । पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम्
लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् । संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः
मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् । तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति
तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् । मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः
यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च । बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम्
ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे । यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च
भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम्
अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी
ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव
तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् । कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम्
हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा
कथितं ते महाभाग गतान्तर्धानमाशु सा । स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी
लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता । अथवा हेमशैले सा तत्त्वतो मे वदाधुना
व्यास उवाच पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् । क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम्
यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे । पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे
यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः । नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका
स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा । यत्र संक्रीडते नित्यं मायाशक्तिः सनातनी
देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा । रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम्
अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् । सर्वलक्षणसम्पन्नं महिषस्यासने शुभे
दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः । स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते
गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते । धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा
पर्जन्यः कालवर्षी च धरा धान्यगुणावृता । पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा
गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् । नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः