तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि । किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम्
देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम्
सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् । कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः
हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः
कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेया- प्यस्मांश्च पाहि जननि प्रथितप्रभावे
व्यास उवाच एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा । अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः
यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् । स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम्
देवा ऊचुः सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् । यदयं निहतः शत्रुरस्माकं महिषासुरः
स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् । तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम्
अपराधसहस्राणि मातैव सहते सदा । इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः
द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् । नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि
तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति । पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु
प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः । मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः
सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् । पाहि नः सततं देवि सर्वैस्तव वरायुधैः
अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः । व्यास उवाच एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत । विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम्
महिषवधानन्तरं पृथिवीसुखवर्णनम् जनमेजय उवाच - अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च । न तृप्तिरस्ति द्विजवर्य शृण्वतः कथामृतं ते मुखपद्मजातम्
अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते । देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम्
कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः । पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम्
लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् । संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः
मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् । तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति
तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् । मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः
यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च । बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम्
ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे । यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च
भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम्
अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी
ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव
तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् । कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम्
हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा
कथितं ते महाभाग गतान्तर्धानमाशु सा । स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी
लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता । अथवा हेमशैले सा तत्त्वतो मे वदाधुना