मातः स्वयंविरचितान्विपिने विनोदा- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् । नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान्
यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा । देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय
चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः
प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते । धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम्
ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् । धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे
विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् । मोक्षार्थिभिस्तु कलिता किल मन्दधीभि- र्नाराधिता जननि भोगपरैस्तथाज्ञैः
ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये । तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते
चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै- र्ब्रह्मा करोति सकलं भुवनं भवादौ । शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ
वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः
शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु । पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात्
शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं शापेन तेन च भृगोर्विपिने गतस्य । तं ये नरा भुवि भजन्ति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः
योऽभूद् गजाननगणाधिपतिर्महेशा- त्तं ये भजन्ति मनुजा वितथप्रपन्नाः । जानन्ति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम्
चित्रं त्वयारिजनतापि दयार्द्रभावा- द्धत्वा रणे शितशरैर्गमिता द्युलोकम् । नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा
ब्रह्मा हरश्च हरिरप्युत गर्वभावा- ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् । केऽन्ये भवन्ति मनुजा विदितुं समर्थाः सम्मोहितास्तव गुणैरमितप्रभावैः
क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः । सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरपि वेदसारम्
मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् । लोकान्स्वबुद्धिरचितैर्विविधागमैश्च विष्ण्वीशभास्करगणेशपरान्विधाय
कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या- न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः । तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च
तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि । त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति
ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः । ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये विलीनाः
चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता । कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या
तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि । किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम्
देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम्
सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् । कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः
हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः
कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेया- प्यस्मांश्च पाहि जननि प्रथितप्रभावे
व्यास उवाच एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा । अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः
यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् । स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम्
देवा ऊचुः सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् । यदयं निहतः शत्रुरस्माकं महिषासुरः
स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् । तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम्
अपराधसहस्राणि मातैव सहते सदा । इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः