चंडिकाऽपि च तं पापं त्रिशूलेन बलादधृदि
ताडितोऽसौ पपातोर्व्यां मूर्छांमाप मुहूर्तकम् 5.18.
विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः
ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम्
पश्य चक्रं मदांधाद्य तव कंठनिकृंतनम्
इत्युक्त्वा दारुणं चक्रं मुमोच जगदंबिका
सुस्राव रुधिरं चोष्णं कंठनालाद्गिरेर्यथा
कबंधस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ
सिंहस्त्वतिबलास्तत्र पलायनपरानथ
मृते च महिषे क्रूरे दानवा भयपीडिताः
आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते
चंडिकाऽपि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता 5.18.
देवीसान्त्वनम् व्यास उवाच अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः । महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम्
देवा ऊचुः ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शक्त्या तवैव हरते ननु चान्तकाले
कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्च वसुधा कमलाजपा च । पुष्टिः कलाथ विजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च
विद्या क्षमा जगति कान्तिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् । आभिर्विना तव तु शक्तिभिराशु कर्तुं को वा क्षमः सकललोकनिवासभूमे
त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेताम् । पृथ्वी न चेत्त्वमसि वा गगने कथं स्था- स्यत्येतदम्ब निखिलं बहुभारयुक्तम्
ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् । शुभ्रांशुवह्नियमवायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवन्ति कार्ये
ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे वह्नौ सुरान्समधिकृत्य हविः समृद्धम् । स्वाहा न चेत्त्वमसि ते कथमापुरद्धा त्वामेव किं न हि यजन्ति ततो हि मूढाः
भोगप्रदासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम् । स्वीयान्सुराञ्जननि पोषयसीह यद्व- त्तद्वत्परानपि च पालयसीति हेतोः
मातः स्वयंविरचितान्विपिने विनोदा- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् । नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान्
यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा । देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय
चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः
प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते । धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम्
ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् । धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे
विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् । मोक्षार्थिभिस्तु कलिता किल मन्दधीभि- र्नाराधिता जननि भोगपरैस्तथाज्ञैः
ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये । तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते
चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै- र्ब्रह्मा करोति सकलं भुवनं भवादौ । शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ
वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः
शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु । पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात्