मध्ये दुर्धर आगत्य मुमोच शिलीमुखान्
ततो भगवती क्रुद्धा तं जघान शितैः शरैः 5.18.
तं तया निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित्
अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान्
अन्धकस्त्वाज गामाशु हतं दृष्ट्वा त्रिलोचनम्
सिंहस्तु नखघातेन तं हत्वा बलवत्तरम्
तान्रणे निहतान्वीक्ष्य दानवो विस्मयं गतः
द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः
स गदाभिहतो मूर्छामवापामरबाधकः
जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः
विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह
तं च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः 5.18.
त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः
आगच्छंतं गिरेः शृंगं देवी बाणैः शिलाशितैः
उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः
विहाय गजरूपं च बभूवाष्टापदी तथा
तं वीक्ष्य शरभं देवी खड्गेन सा रुषाऽन्विता
तयोः परस्परं युद्धं बभूवाति भयप्रदम्
पुच्छप्रभ्रमणेनाशु शृंगघातैर्महासुरः
पुच्छेन पर्वताञ्छृंगे गृहीत्वा भ्रामयन्बलात्
तामुवाच बलोन्मत्तस्तिष्ठ देवि रणांगणे
मूर्खाऽसि मदमत्ताऽद्य यन्मया सह संगरम् 5.18.
हत्वा त्वां निहनिष्यामि देवान्कपटपं डितान्
देव्युवाच करिष्यामि निरातंकान्हत्वा त्वां सुरसत्तमान्
पीत्वाऽद्य माधवीमिष्टां शातयामि रणेऽधम
व्यास उवाच पपौ पुनः पुनः क्रोधाद्धंतुकामा महासुरम्
पीत्वा द्राक्षासवं मिष्टं शलूमादाय सत्वरा
देवास्तां तुष्टुवुः प्रेम्णा चक्रुः कुसुम वर्षणम्
ऋषयः सिद्धगंधर्वाः पिशाचोरगचारणाः
सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः