एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः । कृष्णागमप्रतीक्षास्ते तस्थुर्द्वारि पुरौकसः
द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् । तत्र ते कथयामासुर्वृत्तांतं सर्वमादितः
सत्राजितं शपंतस्ते सर्वे शोकाकुला भृशम् । वासुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम्
मुमोह सपरीवारस्तदा परमया शुचा । चिन्तयामास बहुधा कथं श्रेयो भवेन्मम
अथाजगाम भगवान्देवर्षिर्ब्रह्मलोकतः । उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत्
नारदोऽनामयं पृष्ट्वा वासुदेवं महामतिम् । प्रपच्छ च यदुश्रेष्ठं किं चितयसि तद्वद
वसुदेव उवाच। पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु । पौरैः साकं वनं गत्वा निहतं तं तदैक्षत
प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् । द्वारि पौरानधिष्ठाय बिलांतर्गतवान्स्वयम्
बहवो दिवसा याता नायात्यद्यापि मे सुतः । अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने
नारद उवाच। पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयांबिकाम् । तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि
वसुदेव उवाच। भगवन्का हि सा देवी किंप्रभावा महेश्वरी । कथमाराधनं तस्या देवर्षे कृपया वद
नारद उवाच। वसुदेव महाभाग शृणु संक्षेपतो मम । देव्या माहात्म्यमतुलं को वक्तुं विस्तरात्क्षमः
या सा भगवती नित्या सच्चिदानन्दरूपिणी । परात्परतरा देवी यया व्याप्तमिदं जगत्
यदाराधनतो ब्रह्मा सृजतीदं चराचरम् । यां च स्तुत्वा विनिर्मुक्तो मधुकैटभजाद्भयात्
विष्णुर्यत्कृपया विश्वं बिभर्ति भगवानिदम् । रुद्रः संहरते यस्याः कृपापांगनिरीक्षणात्
संतारबंधहेतुर्या सैव मुक्तिप्रदायिनी । सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी
नवरात्रविधानेन सम्पूज्य जगदंबिकाम् । नवाहोभिः पुराणं च देव्या भागवतं शृणु
यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि । भुक्तिर्मुक्तिर्न दूरस्था पठतां शृण्वतां नृणाम्
इत्युक्तो नारदेनासौ वसुदेवः प्रणम्य तम् । उवाच परया प्रीत्या नारदं मुनिसत्तमम्
वसुदेव उवाच। भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः । श्रूयतां तच्च वक्ष्यामि देवीमाहात्म्यसंभवम्
पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः । ज्ञात्वात्ममृत्युं पापो मां सभार्यां न्यरुणद्भिया
कारागारेऽहमवसं देवक्या सह भार्यया । जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत्
षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् । अतप्यद्देवकी देवी नक्तंदिवमनिन्दिता
तदाऽहं गर्गमाहूय मुनिं नत्वाऽभिपूज्य च । निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया
भगवन्करुणासिन्धो यादवानां गुरुर्भवान् । आयुष्मत्पुत्रसंप्राप्तिसाधनं वद मे मुने
ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः । वसुदेव महाभाग शृणु तत्साधनं परम्
या सा भगवती दुर्गा भक्तदुर्गतिहारिणी । तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि
यदाराधनतः सर्वे सर्वान्कामानवाप्नुयुः । न किचिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम्
इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् । प्रणम्य परया भक्त्या प्रावोचं विहितांजलिः
वसुदेव उवाच। यद्यस्ति भगवन्प्रीतिर्मयि ते करुणानिधे । तदा पुरा मदर्थे त्वं समाराधय चण्डिकाम्