तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम्
वचनं कुरु मे तथ्यं नारीणां परमं हितम् 5.18.
देव्युवाच हत्वा त्वामसुरान्सर्वान्यमिष्यामि यथासुखम्
यदा यदा हि साधूनां दुःखं भवति दानव
अरूपायाश्च मे रूपमजन्मायाश्च जन्म च
सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरै किल
तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम्
व्यास उवाच युद्धकामः स्थितस्तत्र संग्रामांगणभूमिषु
मुमोच तरसा बाणान्कर्णाऽऽकृष्टाञ्छिलाशितान्
तयोः परस्परं युद्धं संबभूव भयप्रदम्
मध्ये दुर्धर आगत्य मुमोच शिलीमुखान्
ततो भगवती क्रुद्धा तं जघान शितैः शरैः 5.18.
तं तया निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित्
अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान्
अन्धकस्त्वाज गामाशु हतं दृष्ट्वा त्रिलोचनम्
सिंहस्तु नखघातेन तं हत्वा बलवत्तरम्
तान्रणे निहतान्वीक्ष्य दानवो विस्मयं गतः
द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः
स गदाभिहतो मूर्छामवापामरबाधकः
जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः
विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह
तं च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः 5.18.
त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः
आगच्छंतं गिरेः शृंगं देवी बाणैः शिलाशितैः
उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः
विहाय गजरूपं च बभूवाष्टापदी तथा
तं वीक्ष्य शरभं देवी खड्गेन सा रुषाऽन्विता
तयोः परस्परं युद्धं बभूवाति भयप्रदम्
पुच्छप्रभ्रमणेनाशु शृंगघातैर्महासुरः
पुच्छेन पर्वताञ्छृंगे गृहीत्वा भ्रामयन्बलात्