महिष उवाच गच्छ राजन्यथा कामं नेयमिच्छति सत्पतिम् ।। 5.17.
नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया
महिषासुरवधः महिष उवाच विवाह योग्या संजाता सुरू पाऽवरजा यदा
तस्या विवाहः संवृत्तः सूजाताश्च स्वयंवरः
तया वृतो नृपः कश्चिद्बलवान्रूपसंयुतः
तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा
पितरं प्राह तन्वंगी विवाहं कुरु मे पितः
चंद्रसेनोऽपि तच्छुत्वा पुत्र्या यद्भाषितं रहः
तमाहूय नृप गेहे विवाहविधिना ददौ
चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत्
रेमे नृपतिशार्दूलः कामिन्या बहुवासरान्
सैरंध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा 5.18.
कदाचिदपि सामान्यां रहो रूपवतीं नृपः
न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे
किं करोम्यद्य संताप निर्लज्जे निर्घृणे शठे
अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु
अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम
पितृगेहं व्रजाम्याशु तत्राऽपि न सुखं भवेत्
तस्मादत्रैव संवासो वैराग्ययुतया मया
महिष उवाच स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः
तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम्
वचनं कुरु मे तथ्यं नारीणां परमं हितम् 5.18.
देव्युवाच हत्वा त्वामसुरान्सर्वान्यमिष्यामि यथासुखम्
यदा यदा हि साधूनां दुःखं भवति दानव
अरूपायाश्च मे रूपमजन्मायाश्च जन्म च
सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरै किल
तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम्
व्यास उवाच युद्धकामः स्थितस्तत्र संग्रामांगणभूमिषु
मुमोच तरसा बाणान्कर्णाऽऽकृष्टाञ्छिलाशितान्
तयोः परस्परं युद्धं संबभूव भयप्रदम्