दृष्ट्वा तामसितापांगीं विस्मयं प्राप भूपतिः
केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे 5.17.
प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचनम्
इति पृष्टस्तु सैरंध्र्या तामु वाच महीपतिः
तस्य पालयिता चाहं वीरसेनाभिधः प्रिये
मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल
उद्याने रंतुकामेयं प्राप्ता कमल लोचना
सैरंध्रि चतुराऽसि त्वं राजपुत्रीं प्रबोधय
गांधर्वेण विवाहेन पतिं मां कुरु कामिनि
वांछामि रूपसंपन्नां सुकुलां कामिनीं किल
अनुकूल पतिश्चाहं भविष्यामि न संशयः इत्याऽऽकर्ण्य वचस्तस्य सैरंध्री प्राह तां तदा
प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा 5.17.
रूपवान्बलवान्कांतो वयसा त्वत्समः पुनः
पिताऽपि ते विशालाक्षि परितप्यति सर्वथा
इत्याहाऽस्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः
वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः
भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात्
मन्दोदर्युवाच निवारय नृपं बाले किं मां पश्यति निस्त्रपः
सैरंध्र्युवाच तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुंदरि
यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम्
महिष उवाच गच्छ राजन्यथा कामं नेयमिच्छति सत्पतिम् ।। 5.17.
नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया
महिषासुरवधः महिष उवाच विवाह योग्या संजाता सुरू पाऽवरजा यदा
तस्या विवाहः संवृत्तः सूजाताश्च स्वयंवरः
तया वृतो नृपः कश्चिद्बलवान्रूपसंयुतः
तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा
पितरं प्राह तन्वंगी विवाहं कुरु मे पितः
चंद्रसेनोऽपि तच्छुत्वा पुत्र्या यद्भाषितं रहः
तमाहूय नृप गेहे विवाहविधिना ददौ
चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत्