श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये
कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि 5.17.
तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ
स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि
उत्तमः सर्वधर्मज्ञो धुवादवरजो नृपः
अपराधं विना कांतां त्यक्तवान्विपिने प्रियाम्
कालयोगान्मृते तस्मिन्नारी स्याद् दुःखभाजनम्
परोषि(पि?)तपतित्वेऽपि दुःखं स्यादधिकं गृहे
तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम
न च वांछति भर्तारं कौमारव्रतधारिणी
न कांक्षति पतिं कर्तुं बहुदोषविचक्षणा
विवाहो न कृतः पुत्र्या ज्ञात्वा भाववि वर्जिताम् 5.17.
यौवनस्यांकुरा जाता नारीणां काम दीपकाः
चकमे न पतिं कर्तुं ज्ञानार्थपद भाषिणी
जगाम सुमुखी प्रेम्णा सैरंध्रीगणसेविता
पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता
आजगाम महावीरो वीरसेनोऽतिविश्रुतः
सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः
मंदोदर्यै तथा प्रोक्तं समायाति नरः पथि
मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह
दृष्ट्वा तामसितापांगीं विस्मयं प्राप भूपतिः
केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे 5.17.
प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचनम्
इति पृष्टस्तु सैरंध्र्या तामु वाच महीपतिः
तस्य पालयिता चाहं वीरसेनाभिधः प्रिये
मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल
उद्याने रंतुकामेयं प्राप्ता कमल लोचना
सैरंध्रि चतुराऽसि त्वं राजपुत्रीं प्रबोधय
गांधर्वेण विवाहेन पतिं मां कुरु कामिनि
वांछामि रूपसंपन्नां सुकुलां कामिनीं किल