पिता चातीव संतुष्टः पुत्रीं प्राप्य मनोरमाम्
इंदोः कलेव चात्यर्थं ववृधे सा दिनेदिने
वरार्थं नृपतिश्चिन्तामवाप च दिनेदिने 5.17.
तस्य पुत्रोऽतिमेधावी कंबुग्रीवोऽतिविश्रुतः
सर्वलक्षणसंपन्नः सर्वविद्यार्थपारगः
कंबुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम्
विवाहं ते पिता कर्तुं कंबुग्रीवेण वांछति
नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे
स्वातंत्र्या न्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदा
विवाहे वर्तमाने तु पावकस्य च सन्निधौ
श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये
कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि 5.17.
तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ
स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि
उत्तमः सर्वधर्मज्ञो धुवादवरजो नृपः
अपराधं विना कांतां त्यक्तवान्विपिने प्रियाम्
कालयोगान्मृते तस्मिन्नारी स्याद् दुःखभाजनम्
परोषि(पि?)तपतित्वेऽपि दुःखं स्यादधिकं गृहे
तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम
न च वांछति भर्तारं कौमारव्रतधारिणी
न कांक्षति पतिं कर्तुं बहुदोषविचक्षणा
विवाहो न कृतः पुत्र्या ज्ञात्वा भाववि वर्जिताम् 5.17.
यौवनस्यांकुरा जाता नारीणां काम दीपकाः
चकमे न पतिं कर्तुं ज्ञानार्थपद भाषिणी
जगाम सुमुखी प्रेम्णा सैरंध्रीगणसेविता
पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता
आजगाम महावीरो वीरसेनोऽतिविश्रुतः
सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः
मंदोदर्यै तथा प्रोक्तं समायाति नरः पथि
मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह