तथापि मे फलं न स्याद्बलाद्भोगसुखं कुतः । प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः
पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् । तत्तथैव हि नारीणां न स्याच्च पुरुषं विना
संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः । कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता
चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो । तवोपदिष्टं केनेदं भोगानां परिवर्जनम्
वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह । मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम्
सुखं तव ममापि स्याद्विवाहे विहिते किल । विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः
रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा । का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम्
येन त्वमसितापाङ्गि न करोषि पतिं शुभम् । कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः
मादनैः पञ्चभिः कामं न ताडयति मन्दधीः । मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि
अबलेति च मन्वानो न प्रेरयति मार्गणान् । मनोभवस्य वैरं वा किमप्यस्ति मया सह
तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् । अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः
सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि । त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि
मन्दोदरीव तन्वङ्गि परित्यज्य शुभं नृपम् । अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् । कामार्ता च यदा जाता मोहेन व्याकुलान्तरा
राजपुत्रीमन्दोदरीवृत्तवर्णनम् व्यास उवाच का सा मंदोदरी नारी कोऽसौ त्यक्तो नृपस्तया
शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम्
महिष उवाच घनपादपसंयुक्तो धनधान्यसमृद्धिमान्
चंद्रसेनाऽभिधस्तत्र राजा धर्मपरायणः
सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः
तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा
नाम्ना गुणवती कांता सर्वलक्षणसंयुता
पिता चातीव संतुष्टः पुत्रीं प्राप्य मनोरमाम्
इंदोः कलेव चात्यर्थं ववृधे सा दिनेदिने
वरार्थं नृपतिश्चिन्तामवाप च दिनेदिने 5.17.
तस्य पुत्रोऽतिमेधावी कंबुग्रीवोऽतिविश्रुतः
सर्वलक्षणसंपन्नः सर्वविद्यार्थपारगः
कंबुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम्
विवाहं ते पिता कर्तुं कंबुग्रीवेण वांछति
नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे
स्वातंत्र्या न्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदा
विवाहे वर्तमाने तु पावकस्य च सन्निधौ